शिक्षा समाजे सशक्तिकरणस्य मजबूत माध्यम: हिंगोनिया
जोधपुरम्, 05 जनवरीमासः (हि.स.)।राजस्थानस्य दुर्बलवर्गसशक्तिकरणकेन्द्रस्य संरक्षिका च राजस्थानपुलिससेवायामधिकपुलिसअधिक्षिका सीमा हिंगोनिया इत्यस्या अध्यक्षतायां जोधपुरपेंशनर्सहितकारिसमितेः पदाधिकाऱिणां गणमान्यनागरिकाणां च उपस्थितौ रातानाडानाम्नि स्थ
jodhpur


जोधपुरम्, 05 जनवरीमासः (हि.स.)।राजस्थानस्य दुर्बलवर्गसशक्तिकरणकेन्द्रस्य संरक्षिका च राजस्थानपुलिससेवायामधिकपुलिसअधिक्षिका सीमा हिंगोनिया इत्यस्या अध्यक्षतायां जोधपुरपेंशनर्सहितकारिसमितेः पदाधिकाऱिणां गणमान्यनागरिकाणां च उपस्थितौ रातानाडानाम्नि स्थाने सांसीबस्त्यां राजस्थानमध्ये दशमीं तथा जोधपुरे द्वितीयां निःशुल्कपाठशालां पट्टच्छेदनेन विधिवदुद्घाटयत्।

सा अवदत् यत् शिक्षा एव समाजे सम्मानस्य सशक्तीकरणस्य च शक्तिमान् साधनम् अस्ति। तदेव उद्देश्यं प्रति कच्चिबस्तिषु निःशुल्काः पाठशालाः चालयन्ते। ट्रस्टस्य उपाध्यक्षः एच आर लोहारी इत्यनेन संस्थया गरीबकच्चिबस्तिषु निःशुल्कपाठशालाः संचाल्य निर्धनबालकेभ्यः शिक्षादानस्य प्रयासानां प्रशंसा कृत अस्य पवित्रकार्यस्य कृते संस्था संरक्षिकायाः सीमा हिंगोनिया इत्यस्या आभारः व्यक्तः।

ट्रस्टाध्यक्षः जी एल तिवारी इत्यनेन ट्रस्टतर्फात् छात्रेभ्यः अध्ययनसामग्री काप्यः बालपेन पेंसिल रबर शार्पनर च तथा पाठशालार्थम् उपस्थिति पञ्जी दर्शनदायरी शिक्षकदायरी फलका चौक डस्टर दरी इत्यादीनि दत्त्वा तेषां सदुपयोगं कर्तुम् आग्रहः कृतः।

राजकीयमहाविद्यालयस्य झालामण्डनाम्नः प्राचार्या डॉ सीमा परमार महिला थाना रातानाडा इत्यस्याः थानााधिकारिणी दीप्ति गौरा इत्यादयः अपि स्वचिन्तनानि अवदन्। अस्मिन् अवसरे समितेः सचिवः हरीशकुमारत्रिवेदी कोषाध्यक्षः श्यामसुन्दरअरोड़ा पूर्वसचिवः देवेंद्रनाथमोदी संस्थापदाधिकारी शिक्षकाः गणमान्यनागरिकाः विद्यार्थिनश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार