Enter your Email Address to subscribe to our newsletters

भोपालम्, 05 जनवरीमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ० मोहनयादवः अद्य सोमवारे जयपुरस्थिते प्रदर्शनीसम्मेलनकेंद्रे (JECC) आयोजिते राजस्थान डिजिफेस्ट TIE ग्लोबल समिट २०२६ इति कार्यक्रमे उपस्थिताः भविष्यन्ति। मुख्यमन्त्री डॉ० यादवः मध्यप्रदेशप्रतिनिधिमण्डलस्य नेतृत्वं करिष्यन्ति, यः उदितवृद्धिक्षेत्रेषु केन्द्रितध्यानं कृत्वा राज्यस्य प्रौद्योगिकी निवेशसम्बन्धिदृष्टिकोणं प्रस्तास्यति। मुख्यमन्त्री डॉ० यादवः मध्यप्रदेशे प्राधान्यप्राप्तप्रौद्योगिकिक्षेत्रेषु अवसराणां विस्तृतरूपरेखां वैश्विकनिवेशकेभ्यः उद्योगजगतः प्रतिनिधिभ्यश्च सह साझा करिष्यन्ति।
जनसम्पर्काधिकारी जूही श्रीवास्तव इत्यनेन सूचितं यत् मुख्यमन्त्री डॉ० यादवः जयपुरे इनोवेशन एक्स्पो नाम प्रदर्शनस्य अवलोकनं करिष्यन्ति तथा मध्यप्रदेश पवेलियन नाम मण्डपं सन्दर्श्य स्टार्टअप्स इनोवेटर्स उद्योगप्रतिनिधिभिश्च सह संवादं करिष्यन्ति। तदनन्तरं मुख्यमन्त्री डॉ० यादवः CEO निवेशकान् वैश्विकउद्योगप्रतिनिधींश्च सह पृथक्पृथग्भेटं कृत्वा मध्यप्रदेशे रणनीतिकनिवेशसंबन्धिन्यवसरान् दीर्घकालिकसहयोगसम्भावनाश्च विषये चर्चां करिष्यन्ति।
यतस्तु जयपुरे आयोजिते त्रिदिवसे TIE ग्लोबल संगोष्ठ्यां २०२६ मध्यप्रदेशविज्ञानप्रौद्योगिकिविभागः सिल्वर स्टेट पार्टनर इति रूपेण सशक्तभागितामकरोत्। एषा भागीदारी २०२५ नवम्बर २७ दिनाङ्के आयोजिते MP Tech Growth Conclave 2.0 नाम कार्यक्रमे The Indus Entrepreneurs TIE राजस्थान इत्यनेन सह कृतस्य सहमतिपत्रस्य अनुरूपा अस्ति। अस्मिन् समिटे मध्यप्रदेशः स्वनवस्थापितां प्रगतिशीलां नीतिपद्धतिं प्रभावेन प्रदर्शयिष्यति। एताः नीतयः राज्यं आगाम्यपीढ्याः प्रौद्योगिकी डिजिटलनवोन्मेष उच्चमूल्यरोजगारसृजनाय प्रियगन्तव्यम् करोति इति लक्ष्येन भारतस्य टियर द्वितीयनगराणां प्रौद्योगिकिपरिसंस्थानं सुदृढीकर्तुं व्यापकदृष्टिकोणेन अनुगच्छन्ति।
हिन्दुस्थान समाचार