इंदौरम् भागीरथपुरायाम् अद्य आयुष विभागः करिष्यति आयुर्वेदौषधानां वितरणम्
इंदौरम्, 05 जनवरीमासः (हि.स.)। मध्यप्रदेशस्य इन्दौरनगरस्य भागीरथपुरानाम्ने प्रदेशे संक्रमणकारणेन प्रभावितानां जनानां कृते आयुषविभागेन मध्यप्रदेशशासनस्य पक्षे आयुर्वैदिकी-औषधानां वितरणाय योजना विनिर्मिता अस्ति। अद्य सोमवासरादारभ्य जिलाप्रशासनस्वास्थ
आयुर्वेद दवाइयों का वितरण (फाइल फोटो)


इंदौरम्, 05 जनवरीमासः (हि.स.)। मध्यप्रदेशस्य इन्दौरनगरस्य भागीरथपुरानाम्ने प्रदेशे संक्रमणकारणेन प्रभावितानां जनानां कृते आयुषविभागेन मध्यप्रदेशशासनस्य पक्षे आयुर्वैदिकी-औषधानां वितरणाय योजना विनिर्मिता अस्ति। अद्य सोमवासरादारभ्य जिलाप्रशासनस्वास्थ्यविभागयोः समन्वयेन शासकीयषट्ताङ्गायुर्वेदमहाविद्यालयचिकित्सालयेन तथा आयुषविभागीयैः वैद्यैः सह चिकित्साशिविरस्य आयोजनम् औषधिवितरणं च परामर्शप्रदानं च करिष्यते।

अस्य कार्यार्थं आयुर्वैद्यानाṁ टीम् स्थानीयसञ्जीवनीक्लिनिकस्य वैद्यैः सह मिलित्वा औषधिवितरणेन सह सर्वेषां रोगिणां अभिलेखान् सञ्चयिष्यति तथा रोगिणां फलोत्पर्यवेशनं (फॉलो अप) अपि करिष्यति। रोगिवितरणार्थं आयुषविभागेन मध्यप्रदेशशासनस्य पक्षात् प्राप्ताः औषधयः सन्ति याः रोगिणां वमनम् अतिसारं च तथा अन्यसमस्याः अपि शमयिष्यन्ति।

शासकीयषट्ताङ्गायुर्वेदमहाविद्यालयस्य प्राचार्यः डॉ.अजीतपालसिंहचौहान तथा जिलाआयुषअधिकारी डॉ.हंसाबारिया इत्युभाभ्यां उक्तं यत् रोगिभ्यः चिकित्सासहाय्यं औषधयश्च प्रदास्यन्ते येन ते शीघ्रं स्वास्थ्यलाभं कुर्वन्तु।

हिन्दुस्थान समाचार