Enter your Email Address to subscribe to our newsletters

भोपालम्, 05 जनवरीमासः (हि.स.)।
मध्यप्रदेशस्य राजधान्याः भोपालनगरस्य शिवाजीनगरप्रदेशस्थिते ‘अङ्कुर-क्रीडाक्षेत्रे’ अद्य सोमवारे प्रभृत्ति क्रिकेटस्य एकं अद्भुतं रूपं द्रष्टुं शक्यते। अत्र अद्य प्रभृत्ति ‘संस्कृत-क्रिकेट-प्रतियोगितायाः’ शुभारम्भः भविष्यति। एषा प्रतियोगिता ९ जनवरी-तिथेः यावत् आयोजिताऽपि भविष्यति। यस्मिन् स्पर्धायां खिलाड़ीगणाः जर्सी न धारयिष्यन्ति, किन्तु धोती-कुर्तकं धारयिष्यन्ति, तथा च मैदानमध्ये न हिन्दी नापि आङ्ग्लभाषा, किन्तु संस्कृतभाषया एव क्रिकेट-टिप्पणी-ध्वनिः निनादिष्यति। समग्रप्रदेशात् २७ दलानि अस्मिन्नायोजने भागं ग्रहीष्यन्ति।
एतदायोजनं ‘महर्षि मैत्री-मैच-शृंखला ६’ इत्यस्याः अन्तर्गतम् ५ जनवरीतः ९ जनवरीपर्यन्तं प्रवर्तिष्यते। ‘वैदिकब्राह्मण-युवा-क्रीडाकल्याण-समिति’ नाम्ना संस्था परशुराम-कल्याण-बोर्डस्य संयोजनेन एतदायोजनं करोति। बोर्डस्य अध्यक्षः विष्णुराजोरिया-नामकः उक्तवान् यत् एतदायोजनं निरन्तरं षष्ठवर्षपर्यन्तं क्रियते। मैचसमये क्रिकेटसम्बद्धाः नित्यप्रयुक्ताः शब्दाः अपि संस्कृतभाषया एव उच्चारिष्यन्ते। स्पर्धायाः विजेता–उपविजेता-दलभ्यां पुरस्काराः दास्यन्ते। ‘मैन ऑफ द मैच’ तथा ‘मैन ऑफ द सीरीज़’ इत्येतयोः पुरस्काररूपेण श्रीमद्भगवद्गीता तथा श्रीरामचरितमानस-द्वयं समर्पयिष्यते। विजेतृ-दलम् बागेश्वरधामस्य पीठाधीश्वरः पण्डितधीरेंद्रशास्त्री सम्मानयिष्यति।
किं किं कथ्यते?
पिच् — क्षिप्याबॉल् — कन्दुकम्बैट् — वल्लकःरन् — धावनम्फोर् (४ धावनम्) — चतुष्कम्सिक्स् (६ धावनम्) — षष्ठकम्अम्पायर — निर्णायकः
---------------
हिन्दुस्थान समाचार