ममताबनर्जी इत्यनया गङ्गासागर-सेतोः आधारशिला न्यस्ताः, तीर्थयात्रिणां कृते वर्षपर्यन्तं मार्ग-सम्पर्कः सुलभः भविष्यति
कोलकाता, ०५ जनवरीमासः (हि.स.)। पश्चिमबङ्गालस्य मुख्यमन्त्री श्रीमती ममताबनर्जी सोमवासरे मुरिगङ्गा-नद्याः उपरि निर्मीयमानस्य गङ्गासागर-सेतोः आधारशिलां न्यस्तवती। प्रायः पञ्च-किलोमीटर-दीर्घः अयं सेतुः निर्मितः सन् सागर-द्वीपं स्थायी-सड़क-सम्पर्केण सं
ममता


कोलकाता, ०५ जनवरीमासः (हि.स.)। पश्चिमबङ्गालस्य मुख्यमन्त्री श्रीमती ममताबनर्जी सोमवासरे मुरिगङ्गा-नद्याः उपरि निर्मीयमानस्य गङ्गासागर-सेतोः आधारशिलां न्यस्तवती। प्रायः पञ्च-किलोमीटर-दीर्घः अयं सेतुः निर्मितः सन् सागर-द्वीपं स्थायी-सड़क-सम्पर्केण संयोजयिष्यति, यत्र प्रतिवर्षं प्रसिद्धः गङ्गासागर-मेला आयोज्यते।

प्रायः १६७० कोटि-रूप्यकाणां व्ययेण निर्मीयमानः अयं चतुर्लेन-सेतुः काकद्वीपं सागर-द्वीपेन सह संयोजयिष्यति। अयं प्रदेशः हुगली-नद्याः तथा बङ्गाल-सागरस्य संगम-स्थले स्थितः अस्ति। सेतोः निर्माणेन सर्वेषु ऋतुषु सागर-द्वीपं प्रति सड़क-मार्गेण गमनं सम्भवम् भविष्यति।

दक्षिण-२४-परगना-जिलान्तर्गतस्य सागर-द्वीपस्य गङ्गासागर-संगमे प्रतिवर्षं मकर-संक्रान्ति-पर्वणि (१४ जनवरी) देशस्य सर्वतः लक्षाधिकाः श्रद्धालवः स्नानाय तथा कपिल-मुनि-मन्दिरे पूजनार्थम् आगच्छन्ति। अधुना यावत् द्वीपं प्रति एकमेव परिवहन-साधनं नौका-सेवा अस्ति, या गङ्गासागर-मेलाकाले अत्यधिक-सम्मर्दस्य तथा ज्वार-भाट-स्थितेः कारणात् प्रायः बाधां जनयति।

कार्यक्रमावसरे पश्चिमबङ्गाल-राज्य-सर्वकारस्य तथा निर्माण-संस्थायाः “लार्सन् एण्ड टरबो (L&T) लिमिटेड्” इत्येतयोः मध्ये परियोजना-सम्बद्धानां दस्तावेजानां औपचारिकः आदान-प्रदानः कृतः। अस्मिन् अवसरे मुख्यमन्त्री स्वयमेव उपस्थिताभवत्। सेतु-निर्माणस्य ठेका लार्सन् एण्ड टरबो संस्थायै प्रदत्तः अस्ति।

अधिकारिणां कथनानुसारं अस्य सेतोः निर्माण-कार्यं द्वयोः वर्षयोः अन्तः सम्पन्नं भविष्यति इति अपेक्षा अस्ति। गङ्गासागर-सेतु-निर्माणेन तीर्थयात्रिणां यात्रा अधिकं सुलभा भविष्यति, अपि च क्षेत्रस्य सर्वाङ्गीण-विकासाय नूतनं वेगं दास्यति इति विश्वासः व्यक्तः कृतः।

हिन्दुस्थान समाचार