Enter your Email Address to subscribe to our newsletters

जयपुरम्, 5 जनवरीमासः (हि.स.)।
उपमुख्यमन्त्री दिया कुमारी इति रविवासरे सैन्यचिकित्सालये आयोजिते विशाल-चिकित्साशिबिरे शुभारम्भं कृतवती। एतत् शिबिरं देशस्य रक्षणे योगदानं दत्त्वा सेवां कृतवन्तः पूर्वसैनिकाः तेषां परिवारजनाश्च तेषां कल्याणं सम्मानं उत्कृष्टस्वास्थ्यं च समीक्ष्य आयोजितम्। शुभारम्भस्य अनन्तरं उपमुख्यमन्त्री चिकित्सा-शिबिरस्य निरीक्षणं कृत्वा रोगिभिः सह संवादं कृत्वा तेषां स्वास्थ्यस्थितेः सूचनामलभत। सा रोगिणां मनोबलं संप्रबोध्य तेषां शीघ्रं स्वास्थ्यलाभं प्रार्थितवती।
अस्मिन् अवसरे दिया कुमारी अवदत् यत् अस्मिन् चिकित्साशिबिरेण पूर्वसैनिकानां तेषां च बान्धवानां कृते हृदयरोगाः अस्थिसम्बद्धरोगाः सहिताः विविधानि चिकित्सासम्बद्धसमस्या समाधातुं उपचारस्य विशेषज्ञोपदेशस्य च सुविधाः उपलब्धाः भवन्ति। एतत् सैनिकपरिवाराणां सम्मानपूर्णस्य स्वस्थस्य च जीवनस्य दिशि एकं महत्वपूर्णं पौरःकार्यं इति सा उक्तवती।
उपमुख्यमन्त्रिणी अवदत् यत् सैनिकानां साहसाद् अनुशासनात् निष्ठायाश्च देशसीमाः सुरक्षिताः भवन्ति। स्वयम् आत्मानं सैनिककन्या इति निरूप्य सा अवदत् यत् सैनिकपरिवाराणां त्यागेन संघर्षेण गौरवेण च तस्याः गाढं भावनात्मकं सम्बन्धम् अस्ति, तेषां सेवा तस्याः कृते दायित्वं तथा आत्मीयं कर्तव्यं च अस्ति। सा उक्तवती यत् पञ्चदशदिने जनवरीमासस्य जयपुरे आयोजिते आर्मी-डे-समारोहे आरम्भः अस्मिन्नेव चिकित्साशिबिरेन कृतः। सा अवदत् यत् राजस्थानप्रदेशे प्रथमवारं आयोजिते आर्मी-डे-परेडे विषये जनसामान्येषु महानुत्साहः दृश्यते तथा जयपुरे तस्य आयोजनं प्रदेशस्य गौरववर्धनं भवति।
कार्यक्रमे दक्षिण–पश्चिम–कमाण्डस्य प्रधानाधिकारी लेफ्टिनेन्ट् जनरल् मंजिन्दर सिंह, आवा-संगठनस्य क्षेत्रीयाध्यक्षा बरिन्दरजीत् कौर इत्येताभ्यां सहितं बहुसंख्ये पूर्वसैनिकाः तेषां परिवारजनाश्च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार