नितिननबीनः मुरली–मनोहर–जोशीं समुपेत्य जन्मदिनस्य शुभाशयाः अर्पितवान्
नवदिल्ली, ०५ जनवरीमासः (हि.स.)। भारतीय–जनता–दलस्य राष्ट्रीय–कार्यकारी–अध्यक्षः नितिननबीनः वरिष्ठं भा.ज.पा.नेतारं पूर्व–केन्द्रीय–मन्त्रीं च डॉ.मुरलीमनोहरजोशीं समुपेत्य तस्य जन्मदिवसावसरे साक्षात्कारं कृतवान्। अस्मिन् अवसरे नितिननबीनः तस्मै हार्दिका
नितिन नबीन ने मुरली मनोहर जोशी से मिलकर  उनके जन्मदिन  पर दी शुभकामनाएं


नवदिल्ली, ०५ जनवरीमासः (हि.स.)। भारतीय–जनता–दलस्य राष्ट्रीय–कार्यकारी–अध्यक्षः नितिननबीनः वरिष्ठं भा.ज.पा.नेतारं पूर्व–केन्द्रीय–मन्त्रीं च डॉ.मुरलीमनोहरजोशीं समुपेत्य तस्य जन्मदिवसावसरे साक्षात्कारं कृतवान्। अस्मिन् अवसरे नितिननबीनः तस्मै हार्दिकाः शुभाशयाः अर्पितवान्, तस्य दीर्घायुष: उत्तमस्वास्थ्यस्य च कामनां कृतवान्।

साक्षात्कारकाले उभयोः नेत्रो: मध्ये सौहार्दपूर्ण: संवाद–विनिमयः अभवत्। नितिननबीनः ‘एक्स’ माध्यमे डॉ.मुरलीमनोहरजोशी–महाभागस्य दीर्घकालीनं राजनैतिकानुभवं, संघटनाय तस्य महत्वपूर्णं योगदानं, राष्ट्रनिर्माणे च तस्य भूमिकां प्रशंसितवान्। सः अवदत् यत् डॉ.जोशी–सदृशानां वरिष्ठ–नेतॄणां मार्गदर्शनं दलाय प्रेरणा–स्रोतः भवति।

हिन्दुस्थान समाचार / अंशु गुप्ता