Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०५ जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदी–महाशयः सोमवासरे सोमनाथमन्दिरस्य २०२६ तमे वर्षे सम्पन्नस्य प्रथम–आक्रमणस्य सहस्रवर्ष–पूर्त्यवसरे विशेष–आलेखं सहभागं कृत्वा श्रद्धाञ्जलिम् अर्पितवान्। सः अवदत् यत्— शताब्दीनां प्रवाहे पुनः पुनः आक्रमणानां सत्तायामपि सोमनाथ–मन्दिरं भारतस्य अदम्य–सांस्कृतिक–चेतनायाः अटूट–साहसस्य च सजीवं प्रतीकमिव अद्यापि अटलं तिष्ठति।
प्रधानमन्त्रिणः सामाजिक–माध्यमेषु प्रकाशितेषु पृथक्–पृथक् सन्देशेषु लिखितं यत्— २०२६ तमे वर्षे सोमनाथ–मन्दिरस्य प्रथम–आक्रमणात् सहस्रवर्षाणि पूर्णानि भविष्यन्ति। तदनन्तरम् अपि अनेकानि आक्रमणानि अभवन्, तथापि सोमनाथः अद्यापि गौरवेन उन्नतः तिष्ठति। एषा कथा केवलम् एकस्य मन्दिरस्य न, अपि तु भारतमातुः संस्कृति–सभ्यतयोः संरक्षणाय समर्पितानाम् असंख्य–सन्तानानां अटल–साहसस्य अमर–गाथा इति सः उक्तवान्।
प्रधानमन्त्रिणा उल्लिखिते आलेखे सोमनाथस्य ऐतिहासिक–संघर्षः, पुनर्निर्माण–प्रक्रिया तथा सांस्कृतिक–पुनर्जागरणस्य सन्दर्भः ‘विकसित–भारत’–संकल्पेन सह सम्बद्धः निरूपितः। सः अवदत् यत्— सोमनाथस्य एषा सहस्राब्दी–यात्रा अस्मान् शिक्षयति यत् आस्था, एकता तथा सांस्कृतिक–मूलानां शक्ति: सर्वासु विपत्तिषु अपि श्रेष्ठतरा भवति।
प्रधानमन्त्री नरेन्द्रमोदी–महाशयः विगत–वर्षेषु सोमनाथ–पुनर्विकास–परियोजनायां स्वस्य योगदानं स्मृत्वा, तां राष्ट्रिय–धरोहर–संरक्षणस्य दिशि निरन्तर–प्रेरणारूपेण वर्णितवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता