प्रधानमन्त्रिणा ममता–बनर्जी-इत्यस्यै जन्मदिवसस्य शुभाशयाः प्रदत्ताः
नवदिल्ली, ०५ जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदी सोमवासरे पश्चिमबङ्गालस्य मुख्यमन्त्रिणे ममता–बनर्जी-इत्यस्यै तस्या: जन्मदिवसावसरे शुभाशयाः अर्पयन् तस्याः उत्तम–स्वास्थ्यं दीर्घायुषं च कामितवान्।प्रधानमन्त्री ‘एक्स'' सामाजिक–माध्यमे लिखि
प्रधानमंत्री नरेन्द्र मोदी और पश्चिम बंगाल की मुख्यमंत्री ममता बनर्जी (फाइल फोटो)


नवदिल्ली, ०५ जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदी सोमवासरे पश्चिमबङ्गालस्य मुख्यमन्त्रिणे ममता–बनर्जी-इत्यस्यै तस्या: जन्मदिवसावसरे शुभाशयाः अर्पयन् तस्याः उत्तम–स्वास्थ्यं दीर्घायुषं च कामितवान्।प्रधानमन्त्री ‘एक्स' सामाजिक–माध्यमे लिखितवान्— “पश्चिमबङ्गालस्य मुख्यमन्त्रिणे ममता–दीदी-इत्यस्यै जन्मदिवसस्य शुभाशयान् अर्पयामि। तस्याः उत्तम–स्वास्थ्यं दीर्घायुषं च प्रार्थये।”उल्लेखनीयं यत् ममता–बनर्ज्याः जन्म अद्यैव दिवसे १९५५ तमे वर्षे अभवत्। सा सम्प्रति पश्चिमबङ्गालस्य मुख्यमन्त्री अस्ति तथा राज्यस्य प्रथम–महिला–मुख्यमन्त्रीत्वेन गौरवं लब्धवती। सा २० मई २०११ तः आरभ्य अस्मिन् पदे कार्यं करोति। सा अखिल–भारतीय–तृणमूल–काङ्ग्रेस–दलस्य संस्थापिका अध्यक्षा (चेयरपर्सन) च अस्ति।मुख्यमन्त्री–पदात् पूर्वं ममता–बनर्जी सप्तवारं लोकसभायाः सदस्या आसीत् तथा केन्द्रीय–मन्त्रीरूपेण रेल–मन्त्रालयं, अंगार–मन्त्रालयं, खनि–मन्त्रालयं, मानव–संसाधन–विकास–मन्त्रालयं च संरक्षितवती।

हिन्दुस्थान समाचार / अंशु गुप्ता