राजस्थान–डिजिफेस्ट ‘टाई–ग्लोबल–समिट’ : अद्य स्मृति–ईरानी वीरेन्द्र–सहवागश्च इत्येतयो: विशेषसत्रम्
जयपुरनगरम्, ०५ जनवरीमासः (हि.स.)। राजस्थान–डिजिफेस्ट ‘टाई–ग्लोबल–समिट—२०२६’ इत्यस्य द्वितीये दिने अद्य अनेकानि महत्त्वपूर्णानि सत्राणि आयोज्यन्ते, येषु नीति–निर्मातारः, वैश्विक–उद्यमिनः, निवेशकाः तथा स्टार्टअप–संस्थापकाः उद्भवमान–प्रौद्योगिकीनां वि
राजस्थान डिजिफेस्ट टाई ग्लोबल समिट


जयपुरनगरम्, ०५ जनवरीमासः (हि.स.)। राजस्थान–डिजिफेस्ट ‘टाई–ग्लोबल–समिट—२०२६’ इत्यस्य द्वितीये दिने अद्य अनेकानि महत्त्वपूर्णानि सत्राणि आयोज्यन्ते, येषु नीति–निर्मातारः, वैश्विक–उद्यमिनः, निवेशकाः तथा स्टार्टअप–संस्थापकाः उद्भवमान–प्रौद्योगिकीनां विविध–क्षेत्रेषु च कृत्रिम–बुद्धेः (एआई) विस्तारविषये गहनं मन्थनं करिष्यन्ति।

समिट–आयोजनस्य द्वितीये दिने नेतृत्वम्, सर्वसामान्य–जनस्य हिताय एआई–उपयोगः, तथा वैश्विक–नवाचार–मॉडेल्स इत्येतेषु विषयेषु विशेषं बलं दास्यते। अस्मिन् अवसरे एव आयोजितेषु फायरसाइड्–संवादेषु, विशेषज्ञ–चर्चासु तथा कीनोट–सम्भाषणेषु महिला–नेतृत्वम्, लघु–मध्यम–उद्यमानां (एमएसएमई) विकासः, एआई–आधारितं शासनम्, तथा दीर्घकालिक–पूँजी–निर्माणम् इत्यादिषु विषयेषु विस्तृतः विचार–विनिमयः भविष्यति।

सोमवासरे प्रारम्भिक–सत्रे पूर्व–केन्द्रीय–मन्त्री स्मृति–ईराणनीमहाशयया सह“लीडरशिप बियॉन्ड लेबल्स : वीमेन, पावर एण्ड पब्लिक सर्विस”इति विषयके फायरसाइड्–संवादमायोजनं भविष्यति। एतत् सत्रं सार्वजनिक–जीवने नेतृत्वस्य, दृढतायाः तथा अनुशासनस्य प्रगाढं दृष्टिकोणं प्रस्तोष्यति।

टीईसीओएम–ग्रुप–संस्थायाः एक्जीक्यूटिव–वाइस–प्रेसिडेण्ट तथा दुबई–इण्टरनेट–सिटी–इत्यस्य प्रबन्ध–निदेशकः अम्मार–अल–मलिक–महाशयः नवाचार–आधारित–नगरीय–इकोसिस्टम्स, निवेश–केन्द्राणि तथा भविष्य–सज्ज–नगराणां विषये वैश्विकं दृष्टिकोणं सहभागं कर्तुम् आगमिष्यति।

तथैव आन्ध्र–प्रदेशस्य एमएसएमई–विकास–निगमस्य अध्यक्षः टी.–शिवशंकर–राव–महाशयः, महाराष्ट्र–सर्वकारस्य उद्योग–विभागस्य प्रमुख–सचिवः डॉ.ए.पी.–अन्नागोपालन–महाशयेन सहितं वरिष्ठ–नीति–निर्मातारः, आर्थिक–विकासस्य प्रमुख–चालकरूपेण एमएसएमई–सशक्तीकरणे राज्य–सर्वकाराणां भूमिकाविषये विचारयिष्यन्ति।

पुस्तक–विमोचन–संवादस्य विशेष–सत्रे ए.जे.पटेलमहाशयः कंवल–रेखी–महाशयेन सह संवादं करिष्यति। अस्मिन् सत्रे टाई–ग्लोबल–संस्थायाः संस्थापकानां तथा वेंचर–कैपिटलक्षेत्रे विशिष्टं योगदानं दत्तवतां व्यक्तिनां सम्मानं भविष्यति, तथा ‘१–१०–१००’ इति तथा ‘१००–मिलियन–अभियानम्’ इति अभियाने उद्घाटयिष्यते।

अन्यस्मिन् महत्त्वपूर्णे सत्रे पूर्व–भारतीय–क्रिकेट–क्रीडकः वीरेंद्र–सहवाग–महाशयः फायरसाइड–संवादे क्रीडा–जगतः नेतृत्वम्, कार्य–निष्पादनम् तथा मानसिक–दृष्टिकोणम् इत्यादिषु स्वानुभवान् सहभागं कर्तुम् आगमिष्यति।द्वितीये दिने प्रौद्योगिकी, सृजनशीलता तथा सार्वजनिक–नेतृत्वस्य संगमे विशेष–सत्राण्यपि आयोजयिष्यन्ते।

“एल्गोरिदम्स् विद सोल : क्रिएटिविटी इन द एज ऑफ एआई”तथा“सीइंग द इनविजिबल : टेक्नोलॉजी बियॉन्ड द ऑब्वियस”इत्यादिषु सत्रेषु एमआईटी–विश्वविद्यालयस्य प्राध्यापकः रमेश–रस्कर–महाशयेन सह वैश्विक–विशेषज्ञाः एआई–प्रौद्योगिक्याः सामाजिकं नवाचारात्मकं च प्रभावं प्रकाशयिष्यन्ति।

राजस्थान–राज्यस्य मुख्य–सचिवः वी.श्रीनिवासेन सह“लीडरशिप एट द हेल्म : स्टीयरिंग गवर्नेंस इन द एज ऑफ एआई”इति विषयके विशेष–नेतृत्व–संवादे नीति–नवाचारः तथा डिजिटल–शासनम् इत्येतेषु विषयेषु चर्चा भविष्यति।

विविधेषु सत्रेषु दीर्घकालिक–निवेशः, सामाजिक–प्रभावः, कूटनीतिः तथा वैश्विक–उद्यमिता इत्यादिषु व्यापकः विमर्शः भविष्यति। एतेषु सत्रेषु आशीष–धवन–महाशयः, नवनीत–मुनोट–महाशयः, निलेश–शाह–महाशयः तथा प्रमोद–भसीन–महाशयः इत्यादयः प्रमुख–विचारकाः सहभागं करिष्यन्ति, ये वैश्विक–अर्थव्यवस्थायां भारतस्य निर्णायकां भूमिकां विशेषतया रेखाङ्कयिष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता