Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०५ जनवरीमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी–आदित्यनाथः सोमवासरे अत्र प्रधानमन्त्री-नरेन्द्र–मोदिना सह तस्य आवासे शिष्टाचारमिलनाय समुपेत्य साक्षात्कारं कृतवान्।प्रधानमन्त्री–कार्यालयेन (PMO) अस्य मिलनस्य सूचना सामाजिक–माध्यम–मञ्चे ‘एक्स’ इत्यत्र उल्लिखिता, तथा च सभासम्बद्धानि छायाचित्राणि अपि प्रकाशिताानि।मिलनानन्तरं मुख्यमन्त्री योगी–आदित्यनाथः ‘एक्स’ इत्यत्र प्रकाशिते स्वीय–सन्देशे अवदत् यत् सः प्रधानमन्त्री नरेन्द्र–मोदीं मिलित्वा तस्य मार्गदर्शनं प्राप्तवान्। तेन लिखितं यत् प्रधानमन्त्रिणः पाथेयम् ‘नूतन–उत्तरप्रदेशस्य’ विकास–यात्रायै सदैव नूतन–ऊर्जां संचारयति। मुख्यमन्त्रिणाऽपि प्रधानमन्त्रिणे बहुमूल्यं समयं दत्तवते कृतज्ञता व्यक्ता।सूत्रैः ज्ञायते यत् अस्मिन् मेलने उभयोः नेत्रो: मध्ये मन्त्रिमण्डल–विस्तारः, निर्वाचन–सम्बद्ध-विषयाः, विकास–कार्याणि, विविध–योजनानां प्रगतिः, तथा समसामयिक–विषयाः इत्यादिषु विस्तृता चर्चा अभवत्। प्रधानमन्त्रिणा सह साक्षात्कारानन्तरं मुख्यमन्त्रिणा भारतीय–जनता–दलस्य अध्यक्षं जे.पी.–नड्डा–महाशयेन सह अपि मिलनस्य सम्भावना वर्तते।
हिन्दुस्थान समाचार / अंशु गुप्ता