‘ऑपरेशन–सिन्दूर’ अवसरे एन.सी.सी.–इत्यस्य भूमिका प्रशंसनीया - उपराष्ट्रपतिः
नवदिल्ली, ०५ जनवरीमासः (हि.स.)। उपराष्ट्रपतिः सी.पी.राधाकृष्णनः सोमवासरे अत्र अवदत् यत् ‘ऑपरेशन–सिन्दूर’ इत्यस्य काले राष्ट्रिय–कैडेट–कोर (एन.सी.सी.)–इत्यस्य भूमिका अत्यन्तं प्रशंसनीया आसीत्।उपराष्ट्रपतिः एतद् वक्तव्यं दिल्ली–छावनी–क्षेत्रे आयोजिते
उपराष्ट्रपति सी. पी. राधाकृष्णन सोमवार को एनसीसी रिपब्लिक डे कैंप-2026 को संबोधित करते हुए


नवदिल्ली, ०५ जनवरीमासः (हि.स.)। उपराष्ट्रपतिः सी.पी.राधाकृष्णनः सोमवासरे अत्र अवदत् यत् ‘ऑपरेशन–सिन्दूर’ इत्यस्य काले राष्ट्रिय–कैडेट–कोर (एन.सी.सी.)–इत्यस्य भूमिका अत्यन्तं प्रशंसनीया आसीत्।उपराष्ट्रपतिः एतद् वक्तव्यं दिल्ली–छावनी–क्षेत्रे आयोजिते एन.सी.सी.–गणतन्त्र–दिवस–शिबिरम्–२०२६ इत्यस्य उद्घाटन–कार्यक्रमे कैडेट-इत्येतान् सम्बोधयन् अवदत्। एन.सी.सी.गणतन्त्रदिवसशिबिरस्य समापनं २८ जनवरीमासे प्रधानमन्त्री-पथसंचलनेन सह भविष्यति। प्रायः एकमास–पर्यन्तं प्रवर्तमाने अस्मिन् शिबिरे देशस्य विविध–भागेभ्यः आगताः २,४०६ एन.सी.सी.–कैडेटछात्रा: सहभागं कुर्वन्ति, येषु ८९८ बालिकाः अपि अन्तर्भवन्ति।उपराष्ट्रपतिः अवदत् यत् गतवर्षे ‘ऑपरेशन–सिन्दूर’ इत्यस्य माध्यमेन भारतीय–सशस्त्र–बलैः राष्ट्रं गौरवान्वितं कृतम् तथा विश्वस्य पुरतः भारतस्य दृढ–संकल्पः प्रदर्शितः। अस्मिन् अभियाने एन.सी.सी.–इत्यस्य योगदानं प्रशंसन् सः अवदत् यत् प्रायः ७२ सहस्रं एन.सी.सी.–कैडेटछात्रा: स्वेच्छया नागरिक–रक्षा (Civil Defence)–कर्तव्येषु सेवां दत्तवन्तः, यत् सङ्कट–काले राष्ट्रसेवायां तेषां प्रतिबद्धतां, साहसं, तत्परतां च दर्शयति।उल्लेखनीयं यत् ‘ऑपरेशन–सिन्दूर’ भारतीय–सशस्त्र–बलैः ०७ मई २०२५ तमे वर्षे सम्पादितम् आसीत्, यस्मिन् पहलगाम–आतङ्कवादी–आक्रमणे २६ निर्दोष–नागरिकाणां हत्यायाः प्रत्युत्तररूपेण न्यूनातिन्यूनं १०० आतङ्कवादिनः निहताः आसन्।कैडेटछात्रेभ्यः नववर्षस्र शुभाशया: अर्पयन् उपराष्ट्रपतिः अवदत् यत् ७८ तमे वर्षे प्रविष्टः एन.सी.सी. अद्य विश्वस्य सर्वातिबृहत्तमः परिधानधारी–युवा–संगठनम् अस्ति, यः अनुशासितान्, उत्तरदायित्वयुक्तान्, देशभक्तान् नागरिकान् निर्मातुं निरन्तरं प्रयतते।एन.सी.सी.–इत्यस्य आदर्श–वाक्यम् ‘एकता–अनुशासनम्’ इति स्मारयन् उपराष्ट्रपतिः अवदत् यत् एतत् संगठनम् आत्मविश्वासयुक्तान्, मूल्यनिष्ठान् यून: दलमस्ति, ये विकसित–भारत@२०४७ इत्यस्य आधारशिला: भवन्ति।गणतन्त्र–दिवसस्य महत्त्वं निरूपयन् उपराष्ट्रपतिः अवदत् यत् एन.सी.सी.–गणतन्त्र–दिवस–शिबिरं न्यायः, स्वातन्त्र्यम्, समता, बन्धुत्वम् इत्यादीनां संवैधानिक–मूल्यानां साक्षात्कारीकरणं करोति, यत्र विभिन्न–राज्येभ्यः केन्द्रशासित–प्रदेशेभ्यश्च आगताः कैडेटछात्रा: सहवासेन प्रशिक्षणं लभन्ते तथा राष्ट्रीय–एकतायाः भावनां दृढीकुर्वन्ति। तेन साहसिक–क्रियाकलापेषु, अन्ताराष्ट्रिय–युवा–विनिमय–कार्यक्रमेषु, पर्यावरण–अभियानेषु, आपदा–राहत–कार्येषु—विशेषतः केरलस्य वायनाड–प्रदेशे आगते जलप्रवाहे—एन.सी.सी.–कैडेटछात्राणां भूमिकापि प्रशंसिता।एन.सी.सी.–प्रशिक्षणस्य आधुनिकीकरणं, साइबर–तथा ड्रोन–प्रशिक्षणस्य आरम्भं, दूरस्थ–वैमानिक–प्रशिक्षण–अकादम्याः (Remote Pilot Training Academy) स्थापनां च स्वागतं कुर्वन् उपराष्ट्रपतिः अवदत् यत् एष: प्रयत्न: यून: भविष्यस्य प्रौद्योगिक–सुरक्षा–समस्याभ्यः सज्जीकर्तुं सहायकाः भविष्यन्ति। तेन एन.सी.सी.–अधिकारिणां, प्रशिक्षकाणां, कर्मचारिणां च समर्पणमपि प्रशंसितम्।अस्याः पूर्वं शिबिर–स्थलम् आगत्य उपराष्ट्रपतिः एन.सी.सी.–कैडेटछात्रै: प्रदत्तं गार्ड-ऑफ-ऑनर निरीक्षितवान्। सः हॉल–ऑफ–फेम इत्यस्य दर्शनं कृतवान्, विविध–प्रदर्शिनी–स्थलानि अवलोकितवान्, कैडेटछात्रै: प्रस्तुतं सांस्कृतिक–कार्यक्रमं च द्रष्टवान्। अस्मिन् कार्यक्रमे एन.सी.सी.–महानिदेशकः लेफ्टिनेन्ट-जनरल-वीरेन्द्र–वत्सः, वरिष्ठ–अधिकारिणः, प्रशिक्षकाः, देशस्य विविध–प्रदेशेभ्यः आगताः कैडेटछात्राश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता