Enter your Email Address to subscribe to our newsletters


मेदिनीपुरम्, 06 जनवरीमासः (हि.स.)। भाजपादलस्य वरिष्ठ-नेतुः दिलीप-घोषस्य सक्रियतायाः अनन्तरं सोमवासरे सायंकाले पश्चिम-मेदिनीपुर-नगरे एकस्य महत्त्वपूर्णस्य परिवर्तन-सभायाः आयोजनं कृतम्। अस्मिन् अवसरे माकपा-दलात् पृथक् जाताः पञ्चाशत् परिवाराः औपचारिकरूपेण भारतीय-जनता-दलस्य सदस्यतां स्वीकृतवन्तः। दल-नेतृभिः तेषां हस्ते भाजपा-ध्वजः समर्प्य भाजपा-परिवारस्य स्वागतं कृतम्।
सभां सम्बोधयन् दिलीप-घोषः अवदत् यत् “पश्चिम-बङ्गालं तृणमूल-काङ्ग्रेसस्य कुशासनात् मुक्तं कर्तुम् अद्य समयस्य महत्तमा आवश्यकता अस्ति। प्रधानमन्त्री नरेन्द्र-मोदी-महोदयस्य विकास-प्रतिरूपं ग्रामे-ग्रामे प्रापयितुं भाजपाः निरन्तरं संघर्षं करोति। एतत् निर्वाचनं केवलं सत्तापरिवर्तनस्य न, अपि तु बङ्गालस्य रक्षणस्य निर्वाचनं अस्ति।”
सः अग्रे अवदत् यत् “अद्य विविध-दलेभ्यः जनाः भाजपादले सम्मिलन्ति, यतः जनता अधुना अवगता अस्ति यत् बङ्गालस्य भविष्यं भाजपादलेन सह एव सुरक्षितम्। अस्मिन् निर्वाचनकाले राज्यस्य सर्वे शुभबुद्धिसम्पन्नाः जनाः एकीकृत्य तृणमूलस्य विरुद्धं निर्णायकं संग्रामं कर्तुम् आवश्यकम्।”
सभायाम् उपस्थिताः भाजपा-नेतारः विश्वासं व्यक्तवन्तः यत्, दिलीप-घोषस्य सक्रिय-नेतृत्वेन तथा जनसमर्थनस्य वृद्ध्या पश्चिम-बङ्गाले परिवर्तनं सुनिश्चितं भविष्यति, तथा राज्ये विकासस्य सुशासनस्य च नवः अध्यायः शीघ्रमेव आरभ्यते।
---------------
हिन्दुस्थान समाचार