Enter your Email Address to subscribe to our newsletters

पूर्णियानगरम्, ०६ जनवरीमास: (हि.स.)। विभागीय–निर्देशानुसारं तथा जनपदाधिकारी अंशुल–कुमारस्य मार्गदर्शनेन पूर्णिया–जनपदस्य अन्तर्गताः सर्वाः पैक्स–संस्थाः सदस्येषु जागरूकतां जनयितुं विभागीय–योजनाभिः च तान् आच्छादयितुं उद्देश्येन सम्बन्धित–अधिकारिभिः ०२ जनवरी २०२६ तः ३१ जनवरी २०२६ पर्यन्तं दिनचर्यानुसारं जागरूकता–शिविराणाम् आयोजनं क्रियते।
अस्मिन् एव अनुक्रमे ०६ जनवरी २०२६ दिने पूर्णिया–जनपदे रामपुर–तिलक:, मतेली–खेमचन्द:, बसन्तपुर–चिन्तामणि:, दरियापुरम्, झुन्नी–इष्टमबरार:, सिकन्दरपुरम्, झुनी–काला, भंवरा–लागन:, डहुआबारी, आसियानी तथा भारतसरा–पैक्स–संस्थासु सदस्यता–सह–जागरूकता–अभियान–कार्यक्रमः आयोजित: आसीत्।
अभियान–काले पैक्स–संस्थासु नूतन–सदस्यानां नामाङ्कनम्, नूतन–धनागार–पंजिकानाम् उद्घाटनम्, धान–अधिप्राप्त्यर्थम् अधिकाधिक–कृषकाणां निबन्धनं च इत्यादीनि महत्त्वपूर्णानि कार्याणि सम्पन्नानि। अस्य अभियानस्य माध्यमेन कृषकानां विभागीय–योजनानां विषये सूचनां प्रदाय तान् लाभान्वितान् कर्तुं प्रयासः क्रियते।
हिन्दुस्थान समाचार / अंशु गुप्ता