Enter your Email Address to subscribe to our newsletters

पूर्णियानगरम्, ०६ जनवरीमास: (हि.स.)। पूर्णियाजनपदस्य प्रथमः विधायकः वरिष्ठः स्वातन्त्र्य–सैनिकः च स्वर्गीयः कमल–देवनारायण–सिंहः तस्य पुण्यतिथ्यवसरे भावपूर्णया श्रद्धया स्मृतः। स्वर्गीयः सिंहः स्वजीवनकाले बिहार–सर्वकारे मन्त्रीरूपेण शिक्षाविभागे, सहकारिता–विभागे, उद्योग–विभागे अनेकेषु विभागेषु च जनकल्याणकारी–योजनानां प्रभावी–कार्यान्वयने महत्त्वपूर्णां भूमिकां निर्वहन् आसीत्।
स्वर्गीयः कमल–देवनारायण–सिंहः सामाजिक–उत्तरदायित्वेषु अत्यन्तं संवेदनशीलः आसीत्। सः हरदा–स्थिते कामाख्या–स्थाने कुष्ठ–रोगिणां कृते निवास–व्यवस्थां कारितवान्, तेषां भोजन–पानीयादि–समुचित–व्यवस्थां च सुनिश्चितां कृतवान्। तदतिरिक्तं काझा–कोठी–तडागस्य पश्चिमे वयन–समितेः सदस्यानां कृते सूत्र–कर्तनस्य वस्त्र–वयनस्य च व्यवस्थां कृत्वा रोजगार–सृजनस्य मार्गं प्रशस्तं कृतवान्। लघु–कुटीर–उद्योगानां स्थापना–विस्तारयोः सः आजीवनं प्रयत्नशीलः आसीत्।
स्वातन्त्र्य–संग्रामे बलिदानं कृतवतां ५६ बलिदानीनां स्मृत्यर्थं सः स्थानीय–टाउन–हॉल–परिसरे ‘शहीद–स्तम्भम्’ निर्माणं कारितवान्, यत् अद्यापि ‘विक्टोरिया–मेमोरियल’ इति नाम्ना प्रसिद्धम् अस्ति तथा तस्य राष्ट्रप्रेम्णः समाजसेवायाः च अटलं प्रतीकं भवति।
कार्यक्रमस्य अध्यक्षतां संस्थायाः अध्यक्षः अजय–सैनः अकरोत्। अस्मिन्नेव अवसरे रञ्जन–कुमार–सिंहः, बबीता–चौधरी, दिलीप–कुमारः, दीपक–गौतम–वर्मा इत्यादयः सहिताः स्थानीयाः नागरिकाः समाजसेवकाः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता