मुख्यमन्त्री साय: अद्य माता–राजिम–जयन्ती–महोत्सवे सहभागं करिष्यति
रायपुरम्, ०७ जनवरीमासः (हि.स.)। छत्तीसगढ–राज्यस्य मुख्यमन्त्री विष्णुदेव–सायः अद्य बुधवासरे गरियाबन्द–जनपदस्य भ्रमणे भविष्यति। सः गरियाबन्द–क्षेत्रे आयोज्यमानेषु विविधेषु कार्यक्रमेषु सहभागं करिष्यति। मुख्यमन्त्री अद्य प्रातः ११:३५ वादने रायपुर–आर
मुख्यमंत्री विष्णुदेव साय  फाइल फाेटाे


रायपुरम्, ०७ जनवरीमासः (हि.स.)। छत्तीसगढ–राज्यस्य मुख्यमन्त्री विष्णुदेव–सायः अद्य बुधवासरे गरियाबन्द–जनपदस्य भ्रमणे भविष्यति। सः गरियाबन्द–क्षेत्रे आयोज्यमानेषु विविधेषु कार्यक्रमेषु सहभागं करिष्यति।

मुख्यमन्त्री अद्य प्रातः ११:३५ वादने रायपुर–आरक्षी–लाइन–विमानपत्तनात् पाण्डुका–नगरं प्रति प्रस्थानं करिष्यति, यत्र मध्याह्ने १२ वादने सिरकट्टी–आश्रम–परिसरे धर्मध्वज–स्थापनं शिलान्यास–कार्यक्रमं च अनुष्ठास्यति।

तदनन्तरं मुख्यमन्त्री विष्णुदेव–सायः अपराह्णे २ वादने राजिम–लोचन–मन्दिरं गमिष्यति, यत्र सः मन्दिर–दर्शनं कृत्वा माता–राजिम–जयन्ती–महोत्सव–२०२६ इत्यस्मिन् सहभागं करिष्यति। सायं ४ वादने सः राजिम–नगरात् राजधानी रायपुरं प्रति प्रत्यागमनं करिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता