Enter your Email Address to subscribe to our newsletters

भोपालम्, ०७ जनवरीमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवस्य ‘विकसित-एम.पी. @2047’ इति दृष्टिकोणाय सकारात्मकां गतिं दातुं, तमेव अधिकं सुदृढीकर्तुं च, तथा राज्यस्य स्टार्ट-अप्-ईकोसिस्टम-इत्येतम् अग्रिम-स्तरं नेतुम् उद्दिश्य ११ तथा १२ जनवरी २०२६ तमे वर्षे राजधान्यां भोपाल-नगरे स्थिते रविन्द्र-भवने ‘मध्यप्रदेश-स्टार्ट-अप-समिट–२०२६’ इत्यस्य आयोजनं कर्तुं निश्चितम् अस्ति। अस्य समिट-इत्यस्य द्वितीये दिने, सोमवासरे (१२ जनवरी), मुख्यमन्त्री डॉ.मोहन-यादवः स्वयं सहभागितां करिष्यति।अस्मिन् समिट-मध्ये राज्यात् तथा देशस्य विविध-भागेभ्यः आगताः स्टार्ट-अप-संस्थाः, निवेशकाः, इन्क्युबेटर-इत्येते, उद्योग-प्रतिनिधयः, शैक्षणिक-संस्थाः तथा अन्ये हितधारकाः सहभागितां करिष्यन्ति। एषा समिट-स्टार्ट-अप-संस्थाभ्यः निवेशस्य, नेटवर्किङ्ग-संयोजनस्य, नीति-संवादस्य तथा नवाचार-प्रदर्शनस्य एकं सशक्तं मञ्चं प्रदास्यति।प्रधानमन्त्री नरेन्द्र-मोदिना फरवरी-मासे २०२५ तमे वर्षे भोपाल-नगरे आयोजिते ग्लोबल-इन्वेस्टर्स-समिट-इत्यस्मिन् ‘मध्यप्रदेश-स्टार्ट-अप-नीति–२०२५’ इत्यस्य विमोचनं कृतम्, येन राज्ये नवाचारस्य तथा उद्यमितायाः क्षेत्रे नूतना: दिश: प्राप्ता:। अस्याः नीत्याः सफल-क्रियान्वयनस्य परिणामस्वरूपं प्रदेशस्य स्टार्ट-अप-ईकोसिस्टम-इति राष्ट्रीय-स्तरे नूतनं परिचयं तीव्रां गतिं च अलभत।नवीन-नीत्या स्टार्ट-अप-संस्थानां सर्वेषु चरणेषु वित्तीय-सहायता, इन्क्युबेशनम्, निवेशः, पेटेण्ट्-सहयोगः तथा विपणन-संयोजनम् इत्यादयः अनेकानि सशक्त-प्रावधानानि सुनिश्चितानि सन्ति, येन प्रदेशे नवाचार-आधारित-आर्थिक-विकासः वेगं प्राप्तवान् अस्ति।एम्.एस्.एम्.ई.-आयुक्तः दिलीप-कुमारः स्टार्ट-अप-संस्थाः, नवप्रवर्तकान्, उद्यमिनः, निवेशकान्, इन्क्युबेटर-इत्येतान् तथा स्टार्ट-अप-ईकोसिस्टम-इतृयनेन सम्बद्धान् सर्वान् हितधारकान् आह्वानं कृतवान् यत् ते अस्यां स्टार्ट-अप-समिट-मध्ये सक्रियरूपेण सहभागितां कुर्वन्तु। सः अवदत् यत् स्टार्ट-अप-संस्थाः नवाचार-आधारित-विकासस्य तथा रोजगार-सृजनस्य आधारशिला: भवन्ति। एतत् समिट स्टार्ट-अप-संस्थाभ्यः स्व-कल्पनानाम्, उत्पादानां तथा समाधानानां प्रदर्शनस्य, निवेशकैः नीति-निर्मातृभिः च संवाद-स्थापनस्य, तथा मध्यप्रदेशस्य सशक्त-स्टार्ट-अप-ईकोसिस्टम-इत्यस्य अविभाज्यं भागं भवितुं महत्त्वपूर्णम् अवसरं प्रदास्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता