रेलवन–अनुप्रयोग-माध्यमेन अनारक्षित–चिटिका–आरक्षणे त्रि–प्रतिशतं विशिष्टं मूल्यशैथिल्यम्
अनुप्रयोग-साहाय्येन सरलतया चिटिका–आरक्षणं कर्तुं शक्यते
रेल वन एप्स की तस्वीर


आसनसोलः, ०७ जनवरीमासः (हि.स.)। दक्षिण–पूर्व–रेलविभाग–अन्तर्गतस्य आद्रा–मण्डलस्य यात्रि–सुविधां दृष्ट्वा तथा डिजिटल–माध्यमैः चिटिका–आरक्षणं प्रोत्साहयितुं रेलवे–विभागेन महत्त्वपूर्णः निर्णयः गृहीतः अस्ति। अस्य निर्णयस्य अन्तर्गतं रेलवन (RailOne) मोबाइल–अनुप्रयोगस्य माध्यमेन अनारक्षित–चिटिका–आरक्षणे त्रि–प्रतिशतं विशेषं मूल्यशैथिल्यं प्रदास्यते।

वर्तमानकाले रेलवन–अनुप्रयोगे आर–वॉलेट माध्यमेन अनारक्षित–चिटिका–आरक्षणे त्रि–प्रतिशतम् अतिरिक्त–रुप्यकप्रत्यावर्तन–सुविधा उपलब्धा अस्ति। अधुना डिजिटल–आरक्षणम् अधिकं प्रोत्साहयितुं निर्णयः कृतः यत् रेलवन–अनुप्रयोगे आर–वॉलेट्–विहाय अन्यैः सर्वैः डिजिटल–माध्यमैः—यथा यूपीआइ, डेबिट्–कार्ड्, क्रेडिट्–कार्ड् इत्यादिभिः—अनारक्षित–चिटिका–आरक्षणे प्रत्यक्षं त्रि–प्रतिशतं मूल्यशैथिल्यं प्रदीयते।

तथापि, यदि यात्रिणः रेलवन–अनुप्रयोगे आर–वॉलेट-माध्यमेन एव अनारक्षित–चिटिकाम् आरक्षयन्ति, तर्हि पूर्ववत् प्रचलिता त्रि–प्रतिशतम् अतिरिक्तरुप्यकप्रत्यावर्तनव्यवस्था यथावत् प्रवर्तते। एषा सुविधा १४ जनवरी २०२६ तः १४ जुलाई २०२६ पर्यन्तं प्रभावी भविष्यति। अस्याम् अवधौ प्राप्त–प्रतिपुष्ट्या (फीडबैक) आधारेण अस्या: योजनायाः अग्रिम–समीक्षा करिष्यते।

दक्षिण–पूर्व–रेलवे–अन्तर्गतस्य आद्रा–मण्डलेन यात्रिभ्यः आह्वानं कृतं यत् ते अस्याः सुविधायाः अधिकाधिकं लाभं गृह्णन्तु तथा डिजिटल–माध्यमैः चिटिका–आरक्षणं कृत्वा समय–सञ्चयं कुर्वन्तु। रेलवे–प्रशासनं अस्या: योजनायाः सूचनां विविध–माध्यमैः व्यापकतया प्रचारयति, येन अधिकाधिकाः यात्रिणः अस्य सुविधायाः लाभं प्राप्नुयु:।

हिन्दुस्थान समाचार / अंशु गुप्ता