Enter your Email Address to subscribe to our newsletters

जौनपुरम् ,07 जनवरीमासः (हि.स.)। उत्तरप्रदेशस्य जौनपुरे माघमासस्य कृष्णपक्षस्य चतुर्थ्यां तिथौ संकष्टि-गणेशकतुर्थी नामकं पर्व आचरितम्। मङ्गलवासरस्य विलम्बितरात्रौ व्रतिन्यः मातरः एतत् व्रतं कृतवत्यः। एतत् व्रतं प्रीतीयोगे सर्वार्थ-अमृतसिद्धियोगसंयोगेन कृतम्। मङ्गलवासररात्रौ चन्द्रोदयः प्रह्लादिकालात् (८:४५) आरभ्य (९:३०) पर्यन्तं जातः। तस्मिन् काले व्रतिन्यः मातरः चन्द्रमसेऽर्घ्यं दत्वा व्रतपारणं कृतवत्यः।
यद्यपि जौनपुरजनपदे घनमेघाः व्याप्नुवन्तः आसन्, तेन चन्द्रदर्शनं विघ्नितम्। चन्द्रदर्शनाभावे बहवः जनाः अन्येषु प्रान्तेषु निवसन्तः स्वबान्धवान् आश्रित्य मोबाइलदूरभाषया वीडियो-आह्वानेन चन्द्रदर्शनं कृत्वा पूजाऽर्चनां च अकुर्वन्।
विद्वान् ज्योतिषाचार्यः डॉ. अखिलेशमिश्रः व्रतस्य महत्त्वं व्याख्यातवान्। स अवदत्— अस्यां दिने व्रतिन्यः स्त्रियः सर्वदिनं उपवासं कुर्वन्ति। चन्द्रोदयात् पूर्वं स्नानं कृत्वा नवानि वस्त्राणि धार्यन्ते। मुक्ताकाशे गोमयेन लेपितं चतुष्कोणं निर्माय तत्र सर्वाः पूजार्थसमग्र्यः स्थाप्यन्ते।
आस्तीक्यं यत् अस्य व्रतस्य अनुष्ठानेन संकटेभ्यः मोक्षः लभ्यते। स्त्रियः स्वपुत्राणां दीर्घायुं, कुलस्य सुखसमृद्धिं च मङ्गलकामनां च कृते एतत् व्रतं कुर्वन्ति। एतत् व्रतं विघ्नबाधानां निवारणं करोति, परिवारस्य धनधान्य-ऐश्वर्ययोः च वृद्धिं जनयति।
चन्द्रोदयात् अनन्तरं चन्द्रमसे लालचन्दन-कुश-दूर्वा-पुष्प-अक्षत-शमीपत्रादिभिः सह ताम्रपात्रेण अर्घ्यं दीयते। अस्मिन् व्रते गौरगणेशस्य च चन्द्रमसश्च विशेषपूजनं क्रियते।
पूजाने कर्मणि भगवतः गणपतये सर्वा उपहाराः चतुर्षु संख्यायां समर्प्यन्ते — लालकन्दः, फलानि, गुडः, तिल्ली, ताम्बूलं, तिलाश्च सङ्गृह्य। गुड-तिल-घृतानां होमाश्च दीयन्ते।
चतुर्-वर्तिकायुक्तदीपेन गणेशारतीः क्रियते, गणेशस्य चत्वारः कथाः उच्यन्ते शृण्यन्ते च। कृष्णतिल-जल-पुष्पाणि हस्ते धृत्वा चत्वारः प्रदक्षिणाः कृत्वा अर्घ्यदानविधानं विद्यते। व्रते गुड-कृष्णतिल-लालकन्द (मूली) ताम्बूलपत्राणि च विशेषमहत्त्वयुक्तानि इति कथ्यते।
पूजनानन्तरं सिंहाडकफलस्य हलुवं कन्दं दुग्धं चायं च फलाहाररूपेण भुज्यते।
हिन्दुस्थान समाचार