Enter your Email Address to subscribe to our newsletters

गोरखपुरम्, 07 जनवरीमासः (हि.स.)। गोरखपुरस्य युवा-प्रसिद्ध-लेखकस्य राजलस्य विविधभाषासु प्रकाशितानि षोडशपुस्तकानि दिल्ली-नगरे १० जनवरीतः आरभ्यमाणे विश्व-पुस्तक-मेलापके प्रदर्शितानि भविष्यन्ति।
राजलः अद्यावधि षट् मौलिकानि पुस्तकानि रचितवान् अस्ति, यासु
‘राजल-नीतिः – समय-प्रबन्धनम्’,
‘राजल-नीतिः – तनाव-प्रबन्धनम्’
तथा ‘राजल-नीतिः – लोक-व्यवहारः’
इत्येताः पुस्तकानि प्रमुखानि सन्ति।
हिन्दुस्थान समाचार