Enter your Email Address to subscribe to our newsletters

कोलकाता, ०७ जनवरीमास: (हि.स.)। पश्चिम–बङ्गाल–राज्यस्य मुख्यमन्त्री ममता–बनर्जी बुधवासरे सामाजिक–माध्यम–मञ्चे ‘एक्स’ इत्यत्र प्रकाशितेन सन्देशेन नेताई–काण्डे बलिदानिभ्यः श्रद्धाञ्जलिम् अर्पितवती। स्वीय–लेखे सा अवदत् यत् नेताई–बलिदानिभ्यः सा विनम्रां श्रद्धां सप्रणामं च समर्पयति।
मुख्यमन्त्री स्वीय–सन्देशे अवदत् यत् अद्य एव २०११ तमे वर्षे झाड़ग्राम–जनपदे स्थिते नेताई–ग्रामे घटितायां हिंसायां नव निर्दोष–नागरिकाः प्राणान् त्यक्तवन्तः। तां हृदयविदारकां घटनां स्मृत्वा सा नेताई–काण्डस्य सर्वान् बलिदानिन: प्रति गभीरां संवेदनां सम्मानं च व्यक्तवती।
ममता–बनर्जी अवदत् यत् नेताई–बलिदानानां तेषां बलिदानं कदापि विस्मर्तुं न शक्यते। सा तेषां परिवार–जनान् प्रति अपि स्वीयां संवेदनां प्रकटयित्वा अवदत् यत् अयं दिवसः अस्मान् हिंसाया: विरोधे एकत्र भूत्वा शान्तेः मानवतायाश्च पक्षे स्थातुं स्मारयति।
हिन्दुस्थान समाचार / अंशु गुप्ता