Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 8 जनवरीमासः (हि.स.)।
असमस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा गुरुवासरे त्रिपुरायाः मुख्यमन्त्रिणं डॉ. माणिकसाहां तस्य जन्मदिवसे हार्दिकाः शुभाशयाः प्रेषितवान्। तेन डॉ. साहस्य नेतृत्वे त्रिपुरायां वर्तमानस्य विकासस्य प्रगतिशीलतायाः च प्रशंसा कृता।
मुख्यमन्त्री डॉ. सरमा अवदत् यत् माता त्रिपुरसुन्दर्याः पावनायां भूमौ डॉ. माणिकसाहस्य मार्गदर्शनेन नेतृत्वेन च प्रगतिविकासयोः नवीनयुगस्य साक्षिणी भवति, यत् तस्य दूरदर्शीनेतृत्वं जनसेवायां च दृढनिष्ठां प्रकटयति।
सः माता कामाख्यायाः महापुरुषस्य श्रीमन्तशङ्करदेवस्य च कृपया डॉ. माणिकसाहस्य उत्तमस्वास्थ्यं दीर्घायुष्यं च कामितवान्।
हिन्दुस्थान समाचार