Enter your Email Address to subscribe to our newsletters

मण्डी, ०८ जनवरीमासः। पीएम श्री विद्यालये जवाहर नवोदय विद्यालये पण्डोह सत्रस्य २०२६–२७ कृते कक्षा नवमी तथा एकादशी प्रवेशार्थं पार्श्व-प्रवेश-चयन-परीक्षा (LEST-2026) इत्यस्य आयोजनं ७ फरवरी २०२६ दिने भविष्यति। अस्याः परीक्षायाः कृते अन्तर्जाल-माध्यमेन प्रवेश-पत्र-अवरोहण-प्रक्रिया अद्य आरब्धा अस्ति।
विद्यालयस्य प्रधानाचार्यः श्री एस.डी. शर्मा अवदत् यत् ये छात्राः परीक्षार्थं आवेदनं कृतवन्तः, ते स्वानि प्रवेश-पत्राणि नवोदय विद्यालय समितेः आधिकारिक-जालस्थलात् (navodaya.gov.in) अवरोहयितुं शक्नुवन्ति। परीक्षा-दिने सर्वैः अभ्यर्थिभिः प्रवेश-पत्रेण सह आधार-परिचय-पत्रं अपि अनिवार्यतया स्वीकृत्य निर्धारित-परीक्षा-केन्द्रे निर्धारित-समयात् पूर्वमेव उपस्थितं भवितव्यम्।
सः अपि अवदत् यत् परीक्षासम्बद्धां अधिकां सूचनां प्राप्तुं अभिभावकाः तथा विद्यार्थीगणः कार्यदिवसेषु प्रातः ९ वादनेतः सायं ४ वादनपर्यन्तं दूरभाष-सङ्ख्याभ्यां ९८०५३१९३०३, ९८१६९९९५७३ अथवा ०१९०५-२८२०४६ इत्यत्र सम्पर्कं कर्तुं शक्नुवन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता