मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन–यादवः अद्य गुवाहाटी–नगरे राष्ट्रीय–वस्त्र–मन्त्रिणां सम्मेलने सहभागं करिष्यति
भोपालम्, ०८ जनवरीमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन–यादवः अद्य गुरुवासरे असमराज्यस्य प्रवासे भविष्यति। सः गुवाहाटी–नगरे आयोज्यमाने राष्ट्रीय–वस्त्र–मन्त्रिणां सम्मेलने सहभागं करिष्यति। अस्मिन्नेव अवसरे मुख्यमन्त्री डॉ.यादवः असम–मुख्यमन
सीएम मोहन यादव (फाइल फोटो)


भोपालम्, ०८ जनवरीमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन–यादवः अद्य गुरुवासरे असमराज्यस्य प्रवासे भविष्यति। सः गुवाहाटी–नगरे आयोज्यमाने राष्ट्रीय–वस्त्र–मन्त्रिणां सम्मेलने सहभागं करिष्यति। अस्मिन्नेव अवसरे मुख्यमन्त्री डॉ.यादवः असम–मुख्यमन्त्रिणा डॉ.हिमन्त–बिस्व–सरमा-इत्यनेन सह वन्यजीवानाम् आदान–प्रदान–सम्बन्धे विस्तृतां चर्चां करिष्यति।जनसम्पर्क–अधिकारी घनश्याम–सिरसामेन उक्तं यत् गुवाहाटी–नगरे आयोजिते राष्ट्रीय–वस्त्र–सम्मेलने केन्द्रीय–वस्त्र–मन्त्री गिरिराज–सिंहः तथा असम–मुख्यमन्त्री डॉ.हिमन्त–बिस्व–सरमा अपि उपस्थिताः भविष्यन्ति। सम्मेलने वस्त्र–उद्योगे निवेश–प्रोत्साहनम्, रोजगार–सृजनम्, नवाचारः, कौशल–विकासः, आधुनिक–याचनानुसारं वस्त्र–उत्पादनम् तथा राज्येषु सहयोगात्मक–नमूना–विकासः इत्यादिषु विषयेषु विचार–विमर्शः भविष्यति।सः अवदत् यत् अस्य सम्मेलनस्य मुख्यम् उद्देश्यं देशस्य वस्त्र–उद्योगानां समग्र–विकासाय विस्ताराय च वेगं दातुम् अस्ति। अत्र पारम्परिक–हस्तकरघा–हस्तशिल्पात् आरभ्य आधुनिक–टेक्सटाइल्-रेडीमेड्–गार्मेण्ट्स्-तकनीकी–वस्त्राणि (टेक्निकल्–टेक्सटाइल्) तथा निर्यात–सम्भावनाः इत्यादिषु विषयेषु गहनं मन्थनं करिष्यते। सम्मेलनकाले मुख्यमन्त्री डॉ.यादवः मध्यप्रदेशस्य वस्त्र–उद्योग–नीतिम्, उद्योग–अनुकूलं वातावरणम्, निवेश–अवसरान् तथा राज्ये उपलब्ध–संसाधनानि राष्ट्रीय–मञ्चे प्रस्तोष्यति। सम्मेलनमाध्यमेन राज्येषु परस्पर–अनुभवानाम् आदान–प्रदानं भविष्यति, तथा वस्त्र–क्षेत्रे नवीन–सहभागिनां मार्गोऽपि प्रशस्तः भविष्यति।इदं सम्मेलनं ‘मेक्–इन–इण्डिया — मेक्–फॉर्–इण्डिया’ तथा ‘वोकल्–फॉर्–लोकल्’ इत्यादीनां राष्ट्रीय–नवाचार–प्रयत्नानां सुदृढीकरणाय महत्त्वपूर्णं पादं मन्यते, येन देशस्य वस्त्र–उद्योगः वैश्विक–स्तरे अधिकं प्रतिस्पर्धी भवेत्। अस्मिन् सम्मेलने मुख्यमन्त्रिणा सह प्रमुख–सचिवः औद्योगिक–नीति–निवेश–प्रोत्साहन–विभागस्य राघवेन्द्र–कुमार–सिंहः, मुख्यमन्त्रिणः सचिवः आलोक–कुमार–सिंहः तथा मध्यप्रदेश–राज्य–औद्योगिक–विकास–निगमस्य प्रबन्ध–संचालकः चन्द्रमौली–शुक्लः अपि उपस्थिताः भविष्यन्ति।

वन्यजीव–आदान–प्रदान–विषये चर्चा

मुख्यमन्त्री डॉ.यादवः अवदत् यत् पूर्वमेव मध्यप्रदेश–असम–राज्ययोः मध्ये वन्यजीवानाम् आदान–प्रदान–विषये सार्थकः विचार–विमर्शः सम्पन्नः आसीत्। अस्मिन् सन्दर्भे मध्यप्रदेशे लुप्तप्राय–वन्य–महिषीणां पुनर्स्थापनम् तथा गण्डकानां (गैंडा) मध्यप्रदेशे आनयनम् इत्यस्य सहमतिर्भूता आसीत्। तथैव असम–राज्यस्य मुख्य–वन्यजीव–अभिरक्षण–विभागस्य आग्रहात् मध्यप्रदेशात् असम–राज्यं प्रति व्याघ्राणां (बाघ) तथा मकराणां स्थानान्तरणेऽपि सहमतिर्दत्ता आसीत्। एतस्मिन् विषये उभाभ्यां राज्याभ्यां केन्द्र–सर्वकाराय स्व–प्रस्तावाः प्रेषिताः सन्ति। निकट–भविष्ये असम–राज्येन सह ईको–टूरिज्म तथा वन्यजीव–पर्यटन–क्षेत्रे सहयोगः सहभागिता च वर्धिष्यते। एतद्विषये अद्य असम–मुख्यमन्त्रिणा डॉ.हिमन्त–बिस्व–सरमा-इत्यनेन सह विस्तृता चर्चा भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता