Enter your Email Address to subscribe to our newsletters

उज्जयिनी, ०८ जनवरीमासः (हि.स.)। मध्यप्रदेशस्य धर्म–संस्कृतेः पुण्यनगरी उज्जयिनी पुनरेकवारं यूनाम् उत्साहस्य कलात्मक–सङ्गमस्य च साक्षी भवितुं गच्छति। स्थानीये सम्राट्–विक्रमादित्य–विश्वविद्यालये अद्य गुरुवासरादारभ्य त्रिदिवसीयः राज्यस्तरीयः युवा–उत्सवः “अभ्युदयः” भव्यतया आयोज्यते। अस्य महोत्सवस्य गरिमामयं शुभारम्भं मुख्यमन्त्री डॉ.मोहन–यादवस्य मुख्यातिथ्ये सम्पन्नं भविष्यति।सम्राट्–विक्रमादित्य–विश्वविद्यालयस्य कुलगुरुः प्रो.अर्पण–भारद्वाजः अवदत् यत् विश्वविद्यालयाय अस्य प्रतिष्ठितस्य आयोजनस्य आतिथ्यं कर्तुं सुअवसरः लब्धः। अयम् उत्सवः विशेषः अस्ति, यतः एषः यूनां “लघु–कुम्भम्” इव मन्यते। “अस्माकम् उद्देश्यं केवलं स्पर्धानाम् आयोजनं न, अपि तु उज्जयिन्याः ‘अतिथिदेवो भवः’ इति परम्परया प्रदेशस्य सर्वेभ्यः कोणेभ्यः आगतान् विद्यार्थिनः परिचयकारणमप्यस्ति। एतत् आयोजनं विद्यार्थिभ्यः न केवलं स्पर्धारूपेण, अपि तु अधिगमस्य विशालं मञ्चमपि भविष्यति।”विश्वविद्यालयस्य विद्यार्थी–कल्याण–संकायाध्यक्षः प्रो.एस.के. मिश्रः अवदत् यत् अस्मिन् त्रिदिवसीये उत्सवे मध्यप्रदेशस्य विविध–विश्वविद्यालयेभ्यः चयनिताः प्रायः अष्टशतं (८००) प्रतिभाशालिनः विद्यार्थिनः सहभागं करिष्यन्ति। प्रतिभागिनः आहत्य द्वाविंशतिः (२२) सांस्कृतिक–साहित्यिक–विधासु स्वां प्रतिभां प्रदर्शयिष्यन्ति। एतासु विधासु गायनं, नृत्यं, वाद–विवादः, नाट्यं, चित्रकला इत्यादयः स्पर्धाः अन्तर्भवन्ति।युव–उत्सवस्य सांस्कृतिक–साहित्यिक–स्पर्धाः पञ्चसु स्थलेषु आयोज्यन्ते।प्रो.मिश्रः सूचितवान् यत् विश्वविद्यालयेन आयोज्यमानस्य राज्यस्तरीय–युवा–उत्सवस्य स्पर्धाः पञ्चसु स्थलेषु भविष्यन्ति— विश्वविद्यालयस्य स्वर्ण–जयन्ती–सभागारे, शलाका–दीर्घायाम्, स्वामी–विवेकानन्द–अभियांत्रिकी–संस्थाने, महाराजा–विक्रमादित्य–शोध–पीठे, मुक्ताकाशी–मञ्चे (सम्राट्–विक्रमादित्य–विश्वविद्यालय–परिसरे) तथा एम.पी.आई.एस.एस.आर.–संस्थाने।तेन उक्तं यत् अद्य मुख्यमन्त्री डॉ.मोहन–यादवेन मुक्ताकाशी–मञ्चे सम्राट्–विक्रमादित्य–विश्वविद्यालय–परिसरे युवा–उत्सवस्य शुभारम्भः करिष्यते। तत: पूर्वं स्पर्धासु सहभागं कर्तुम् आगतानां विश्वविद्यालयानां शोभायात्रा आयोज्यते, यां मुख्यमन्त्री डॉ.यादवः हरित–ध्वज–प्रदर्शनेन प्रेषयिष्यति। एषा शोभायात्रा प्रातः १०.०० वादने आरभ्य ११.३० वादनपर्यन्तं मुक्ताकाशी–मञ्चात् टॉवर–चतुष्पथं यावत् गमिष्यति; तदनन्तरं उद्घाटन–समारोहः प्रातः ११.३० वादनात् अपराह्ण ०१.०० वादनपर्यन्तं मुक्ताकाशी–मञ्चे सम्पन्नो भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता