मुख्यमंत्री योगी जनता दर्शने अशृणोत् जन समस्याः , अवदत्- सर्वस्यापि समस्यानां निराकरणं सर्वकारस्य संकल्पः
-जनता दर्शने मुख्यमंत्री श्रुतवान् 150 जनानां समस्याः -मुख्यमंत्रिणः निर्देशः - शीघ्रतय समस्यानां निस्तारणं कुर्युः अधिकारिणः -गंभीरायां रोगचिकित्सायां करिष्यते आर्थिकी सहायता गोरखपुरम्, 08 जनवरीमासः (हि.स.)। गोरखपुरे प्रवासकाले गुरुवासरे
जनता दर्शन में मुख्यमंत्री ने सुनीं 150 लोगों की समस्याएं*


जनता दर्शन में मुख्यमंत्री ने सुनीं 150 लोगों की समस्याएं*


जनता दर्शन में मुख्यमंत्री ने सुनीं 150 लोगों की समस्याएं*


जनता दर्शन में मुख्यमंत्री ने सुनीं 150 लोगों की समस्याएं*


-जनता दर्शने मुख्यमंत्री श्रुतवान् 150 जनानां समस्याः

-मुख्यमंत्रिणः निर्देशः - शीघ्रतय समस्यानां निस्तारणं कुर्युः अधिकारिणः

-गंभीरायां रोगचिकित्सायां करिष्यते आर्थिकी सहायता

गोरखपुरम्, 08 जनवरीमासः (हि.स.)।

गोरखपुरे प्रवासकाले गुरुवासरे प्रातः मुख्यमन्त्री योगी आदित्यनाथः गोरखनाथमन्दिरे आयोजिते जनतादर्शनकार्यक्रमे विभिन्नेभ्यः जनपदेभ्यः आगतान् जनान् मिलित्वा तेषां समस्याः श्रुतवान्। अस्मिन् अवसरः सः अवदत् यत् प्रत्येकस्य व्यक्तेः समस्यायाः समाधानं सरकारस्य दृढसंकल्पः अस्ति। मुख्यमन्त्रीः अधिकारिणः निर्देशितवान् यत् ते पूर्णया तत्परतया संवेदनशीलतया च कार्यं कुर्वन्तु, येन भेदभावं विना सर्वेभ्यः न्यायः लभ्येत। प्रत्येकः पात्रः जनकल्याणकारीयोजनानां लाभं प्राप्नुयात्, आवश्यकानां समुचितचिकित्साव्यवस्था भवेत्, भूमिकब्जं कुर्वतां भूमिमाफियानां दबङ्गानां च विरुद्धं कठोराः कार्यवाह्याः क्रियेरन्।

गोरखनाथमन्दिरस्य महन्तदिग्विजयनाथस्मृतिभवने सभागारे आयोजिते जनतादर्शनकार्यक्रमे मुख्यमन्त्री योगी आदित्यनाथः प्रायः शतपञ्चाशत् जनानां समस्याः श्रुतवान्। सः स्वयमेव आसनेषु उपविष्टान् जनान् प्रति गतः। तेषां समस्याः शिकायताः च सावधानतया श्रुत्वा सर्वेषां प्रार्थनापत्राणि सम्बन्धिताधिकारिभ्यः संदर्भितवान्, त्वरितं सन्तोषप्रदं च निस्तारणं कर्तुं निर्देशान् दत्तवान्। जनान् च आश्वासितवान् यत् सरकार प्रत्येकस्य पीडितस्य समस्यायाः समाधानाय पूर्णतया प्रतिबद्धा अस्ति।

गम्भीररोगाणां उपचाराय आर्थिकसहायार्थं आगतान् अनेकान् जनान् प्रति मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् धनाभावात् कस्यापि उपचारः न स्थगिष्यते। सः अधिकारिणः आदेशितवान् यत् ये केचन आवश्यकाः सन्ति, तेषां उच्चस्तरीयचिकित्सायाः अनुमानपत्रं शीघ्रं सिद्धं कृत्वा उपलब्धं कुर्वन्तु। अनुमानपत्रे प्राप्ते सति सरकार तत्क्षणं धनं प्रदास्यति। राजस्वसम्बद्धेषु विधिव्यवस्थासम्बद्धेषु च प्रकरणेषु शीघ्रनिस्तारणस्य निर्देशाः अपि दत्ताः।

गुरुवासरे प्रातः गोरखनाथमन्दिरप्रवासकाले मुख्यमन्त्री योगी आदित्यनाथः परम्परागतां दिनचर्यां अनुवर्तितवान्। गुरुगोरखनाथस्य दर्शनपूजनं कृत्वा स्वगुरोः ब्रह्मलीनमहन्तअवेद्यनाथस्य प्रतिमायाः समक्षं शिरः नत्वा सः मन्दिरपरिसरे भ्रमणं कृतवान्। मन्दिरस्य गोशालां गत्वा गोसेवां अकरोत्। सः स्नेहपूर्णेन भावेन गवां गोवंशानां च गुडं दत्तवान्। प्रातः मन्दिरपरिसरे भ्रमणकाले परिजनैः सह आगतान् बालकान् मिलित्वा तेषां स्नेहं दत्त्वा आशीर्वादं च चाकलेहम् अपि अददात्।

---------------

हिन्दुस्थान समाचार