Enter your Email Address to subscribe to our newsletters

शिवपुरीः, ०८ जनवरीमासः (हि.स.)।केन्द्रीय–सञ्चार–पूर्वोत्तर–क्षेत्र–विकास–मन्त्री ज्योतिरादित्य–सिन्धिया अद्य आरभ्य चतुर्दिवसीयं शिवपुरी–जनपदस्य प्रवासं करिष्यति। सः ८ जनवरीतः ११ जनवरीपर्यन्तं जनपदे स्थित्वा कोलारस-बदरवास-पिछोर-शिवपुरी–नगरे विविध–विकास–कार्याणाम् उद्घाटनम्, शिलान्यासम्, प्रशासनिक–सभा: तथा स्थानीय–कार्यक्रमेषु सहभागितां करिष्यति।निर्धारित–कार्यक्रमानुसारं मन्त्री–वर्यस्य यात्रा अद्य कोलारसतः आरभ्यते। सायं ६.१० वादने सः कोलारस–तहसील–क्षेत्रे आगत्य स्थानीय–कार्यक्रमे सहभागी भविष्यति। तदनन्तरं सायं ६.२५ वादने कोलारस–उप–डाकगृहस्य, तथा ६.४५ वादने जगतपुरा–उप–डाकगृहस्य उद्घाटनं करिष्यति।रात्रौ ८ वादने म्याना–रेलवे–स्थानकात् भोपाल–ग्वालियर–एक्सप्रेस–रेलयानं हरित–ध्वजं दर्शयिष्यति। रात्रौ ९.१५ वादने पगारा–रेलवे–स्थानकात् भोपाल–जोधपुर–एक्सप्रेस–रेलयानं प्रस्थाय गुना–नगरं प्रति प्रस्थानं करिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता