Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 09 जनवरीमासः (हि.स.)। असमराज्यसर्वकारेण आयोजितायां एडीआरई परीक्षायां उत्तीर्णानां अभ्यर्थिनां कृते अद्य नियुक्तिपत्रवितरणकार्यक्रमः आरभ्यते। अस्मिन् अद्य नियुक्तिपत्रवितरणकार्यक्रमे मुख्यमन्त्री डॉ हिमन्त बिस्व सरमा सहभागितां करिष्यति।
असमराज्यसर्वकारस्य नियुक्तिपत्रवितरणकार्यक्रमानुसारं अद्य चतुर्थश्रेणीअभ्यर्थिनां नियुक्तिपत्रवितरणं खानापारा स्थिते ज्योतिविष्णु अन्ताराष्ट्रिय कलामन्दिरे आयोजितं भविष्यति।
अस्मिन्नेव क्रमे दशजनवरीतिथौ तृतीयश्रेणीअभ्यर्थिनां नियुक्तिपत्रवितरणं सरुसजाई स्थिते अर्जुन भोगेश्वर बरुवा क्रीडासम्प्रांगणे आयोजितं भविष्यति।
तथा द्वादशजनवरीतिथौ चाय जनजातिसम्बद्धानां अभ्यर्थिनां तृतीयचतुर्थश्रेणीयोः नियुक्तिपत्रवितरणं भांगागढ़ स्थिते गुवाहाटी चिकित्सामहाविद्यालयस्य सभागृहे आयोजितं भविष्यति।
उल्लेखनीयं यत् मुख्यमन्त्री डॉ हिमन्त बिस्व सरमा विधानसभा निर्वाचनकाले एकलक्षस्य नियुक्तीनां आश्वासनं दत्तवान् आसीत्। सा संख्या अधुना डेढ़लक्षात् अधिका अभवत्, तथा अस्याः संख्यायाः वर्धनं अद्यापि निरन्तरं प्रवर्तते।
हिन्दुस्थान समाचार