क्रीडकेभ्य: दिव्याङ्गाभ्यर्थिभ्यश्च कृते १५ तः १७ जनवरीपर्यन्तं कर्गद–सत्यापन–शिविरम् आयोजितम्
पटवार–पदेषु साक्षात्–नियुक्ति: २०२५
राजस्व मंडल


जयपुरम्, ०९ जनवरीमासः (हि.स.)।पटवार–साक्षात्–नियुक्ति–परीक्षा–२०२५ मध्ये सफलानां क्रीडकानां तथा दिव्याङ्ग–अभ्यर्थिनां कर्गद–सत्यापनाय विशेष–शिविरम् १५ तः १७ जनवरीपर्यन्तं अजमेर–नगरे स्थिते राजस्व–मण्डल–बोर्ड–कार्यालये आयोजितं भविष्यति।राजस्व–मण्डलस्य उप–निबन्धकः (भू–राजस्वः) रविन्द्र–कुमारः अवदत् यत् अस्मिन् विशेष–शिविरेअ–अनुसूचित–क्षेत्रात् ३५० अभ्यर्थिनः,अनुसूचित–क्षेत्रात् ४५ अभ्यर्थिनः,इति समष्ट्या ३९५ अभ्यर्थिनां कर्गदानां परीक्षणं क्रियते।कर्गद–सत्यापन–कार्यं निर्दिष्ट–तिथिषु प्रतिदिनं प्रातः १० वादनतः सायं ५ वादनपर्यन्तं सम्पन्नं भविष्यति। अभ्यर्थिनः स्व–स्व–निर्धारित–तिथ्यनुसारमेव उपस्थिताः भवेयुः इति निर्देशः प्रदत्तः।प्रत्येक–तिथ्यां –अनुक्रमांकानुसारम् अभ्यर्थिनां सूची राजस्व–मण्डलस्य आधिकारिक–जालस्थलेlandrevenue.rajasthan.gov.inइत्यत्र उपलब्धा अस्ति।दिव्याङ्ग–अभ्यर्थिनां पात्रता–परीक्षणे स्पष्टं कृतं यत् केवलं चिकित्सा–प्रमाणपत्रस्य आधारेणओ–एल (एक–पाद–दिव्याङ्ग / Lower Limb)वर्गस्य अभ्यर्थिनः एव योग्या: मन्यन्ते।राजस्व–मण्डलेन सर्वे सम्बन्धिताः अभ्यर्थिनः समये उपस्थाय आवश्यक–मूल–कर्गदानि तेषां प्रतिलिपिभि: सह आनयन्तु इति निर्देशित:।

हिन्दुस्थान समाचार / अंशु गुप्ता