Enter your Email Address to subscribe to our newsletters

प्रसिद्धः पुरातत्त्वविद् पद्मश्री–डॉ.यशोधर–मठपालः सम्मानितः भविष्यति
भोपालम्, ०९ जनवरीमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन–यादवः अद्य (शुक्रवासरे) प्रातः ११ वादने भोपाल–नगरे कुशाभाऊ–ठाकरे–अन्ताराष्ट्रिय–कन्वेन्शन–केन्द्रे प्रतिष्ठितस्य डॉ.विष्णु–श्रीधर–वाकणकर–राष्ट्रीय–पुरस्कार–समारोहस्य तथा राष्ट्रीय–संगोष्ठ्याः शुभारम्भं करिष्यति।अस्मिन् समारोहे मुख्यमन्त्री–महोदयः १९ तमेन डॉ.विष्णु–श्रीधर–वाकणकर–राष्ट्रीय–पुरस्कारेण प्रसिद्धं पुरातत्त्वविदं पद्मश्री–डॉ.यशोधर–मठपालम् सम्मानयिष्यति।जनसम्पर्क–अधिकारी अनुराग–उइके सूचयति यत् पुरातत्त्व–सञ्चालनालयेन, अभिलेखागारेण, संग्रहालयेन च संयुक्तरूपेण एतत् त्रिदिवसीयं राष्ट्रीय–आयोजनं ९ तः ११ जनवरी–मासपर्यन्तम् आयोजितम्। भारतस्य धरोहर–ज्ञान–परिदृश्ये एतत् आयोजनं महत्त्वपूर्णोपलब्धिः इति परिगण्यते, यत्र देशस्य विविधप्रदेशेभ्यः प्रख्याताः विद्वांसः, वरिष्ठाः प्रशासकाः, नीति–निर्मातारः, शिक्षाविदः, शोधकर्तारः, धरोहर–विशेषज्ञाश्च सहभागितां कुर्वन्ति। अयं कार्यक्रमः मध्यप्रदेशस्य धरोहर–प्रशासनस्य, अन्तर्विषयक–अनुसन्धानस्य तथा वैज्ञानिक–संरक्षण–पद्धतिनां वर्धमानां भूमिकां प्रतिबिम्बयति।तेन एव सूचितं यत् पुरातत्त्वविदः डॉ.मठपालः पुरातत्त्व–क्षेत्रे तथा शैल–चित्र–अध्ययन–क्षेत्रे कृतस्य उल्लेखनीयस्य योगदानस्य कारणेन एतत् सम्मानं प्राप्स्यन्ति। डॉ.मठपालः वरिष्ठः पुरातत्त्वविद्, चित्रकारः, संग्रहकार:, शैल–चित्र–संरक्षण–विशेषज्ञश्च सन्ति। तेन पश्चिम–घाटेषु, हिमालय–प्रदेशे, विंध्य–पर्वत–शृङ्खलायां तथा कैमूर–पर्वत–शृङ्खलायां ४०० अधिकाः प्राचीन–गुहाः अन्वेषिताः। शैल–चित्र–संरक्षणस्य वैज्ञानिक–पद्धतिनां विकासे तस्य योगदानं भारतस्य प्रागैतिहासिक–धरोहरस्य अध्ययनं संरक्षणं च अन्ताराष्ट्रिय–स्तरे नवीनां दिशं प्रदत्तवान्।जनसम्पर्क–अधिकारिणः मतेन संगोष्ठ्याः प्रौद्योगिकी–सत्रेषु राष्ट्रीय–स्तरस्य प्रख्याताः विचारकाः विशेषज्ञाश्च व्याख्यानानि, सत्र–अध्यक्षतां, मार्गदर्शनं च प्रदास्यन्ति। तेषु कल्याण–कुमार–चक्रवर्ती (आईएएस), प्रो.रवि–कोरिसेट्टर:, अरुण–सिंघल: (सेवानिवृत्तः आईएएस), हरसहाय–मीणा (आईएएस), प्रो.आलोक–त्रिपाठी, डॉ.नन्दिनी–भट्टाचार्य–साहू, डॉ.ए.के.सिन्हा, डॉ.डी.दयालन: इत्यादयः प्रतिष्ठिताः विशेषज्ञाः सम्मिलिताः भविष्यन्ति। भारतीय–पुरातत्त्व–सर्वेक्षणस्य, राष्ट्रीय–अभिलेखागारस्य तथा विविध–राज्य–अभिलेखागाराणां वरिष्ठ–विशेषज्ञाः अपि एतेषां सत्राणां मार्गदर्शनं करिष्यन्ति, येन शैक्षणिक–गहनता नीति–सम्बद्धा प्रासंगिकता च सुनिश्चितं भविष्यति।संगोष्ठ्याम् त्रीणि प्रमुखानि विषयगत–क्षेत्राणि चर्चासु स्थाप्यन्ते—पुरातत्त्वे, नृवंश–पुरातत्त्वे, पुरातत्त्वमितौ, कलाकृति–विश्लेषणे तथा सांस्कृतिक–संसाधन–प्रबन्धने नवीनाः उपलब्धयः;अभिलेखागार–कर्गद–प्रबन्धने उद्भवन्त्यः प्रौद्योगिक्यः, यासु हाइब्रिड–प्रणाल्यः अपि सन्ति;मूर्त–अमूर्त–धरोहरस्य सङ्ग्रहणं, भण्डारणम्, उपलब्धता, संरक्षणं च, विशेषतः डिजिटल–क्यूरेशन–केन्द्रितः विमर्शः।कार्यक्रमे शोध–पत्र–प्रस्तुतयः, विचार–विमर्शः, साक्ष्य–आधारित–अनुशंसानां निर्माण–प्रक्रिया च अन्तर्भविष्यन्ति।शैक्षणिक–विमर्शात् अतिरिक्तम्, अस्मिन् आयोजने विशेष–प्रदर्शिन्यः, वृत्तचित्र–प्रदर्शनम्, भोपाल–नगरस्य समीपस्थानां प्रमुख–धरोहर–स्थलानां निर्देशित–भ्रमणं च आयोज्यते, येन प्रतिभागिनः क्षेत्रस्य समृद्धां पुरातात्विकां सांस्कृतिकीं च धरोहरं प्रत्यक्षरूपेण अनुभविष्यन्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani