Enter your Email Address to subscribe to our newsletters

बहरी–क्षेत्रे लोकार्पण–शिलान्यास, प्रशिक्षण-सह-उन्मुखीकरणं तथा हितलाभ–वितरण–कार्यक्रमः
भोपालम्, ०९ जनवरीमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन–यादवः अद्य शुक्रवासरे सीधी–जनपदस्य बहरी–क्षेत्रे आयोजिते विविध–विभागीय–हितग्राहिणां प्रशिक्षण–सह–उन्मुखीकरण–कार्यक्रमे सहभागं करिष्यति।मुख्यमन्त्री–महोदयः अस्मिन् कार्यक्रमे २०१ कोटि ६४ लक्ष–रूप्यकाणां मूल्येन २०९ विकास–कार्याणां लोकार्पणं तथा शिलान्यासं करिष्यति।मुख्यमन्त्री–महोदयः६८ कोटि–रूप्यकेभ्यः अधिक–व्युययक्तानां १७९ विकास–कार्याणां लोकार्पणंतथा१३३ कोटि ६२ लक्ष–रूप्यक–व्यययुक्तानां ३० विकास–कार्याणां शिलान्यासं करिष्यति।तथा च मुख्यमन्त्री “एक–बगिया–मातुः–नाम” योजनायां५०५ हितग्राहिणः११ कोटि ५८ लक्ष–रूप्यक–राश्या लाभान्वितान् करिष्यति।विविध–विभागीय–१७९ कार्याणां लोकार्पणम्जनसम्पर्क–अधिकारी मुकेश–मिश्रः सूचयति यत् मुख्यमन्त्री–महोदयः बहरी–क्षेत्रेअनुसूचित–जाति–विभागस्य,आदिवासी–विभागस्य,उच्च–शिक्षा–विभागस्य,जनजातीय–कार्य–विभागस्य,जिला–पञ्चायत–वाटरशेड–विभागस्य,राजस्व–विभागस्य,लोक–निर्माण–विभागस्य,लोक–स्वास्थ्य–चिकित्सा–शिक्षा–विभागस्य,विद्यालय–शिक्षा–विभागस्यअन्तर्गतं १७९ विकास–कार्याणां लोकार्पणं करिष्यति।एतेषु कार्येषु ६८ कोटि १ लक्ष ४० सहस्र–रूप्यकाणि व्ययीकृतानि, येन शिक्षा, स्वास्थ्यम्, आधारभूत–संरचना तथा ग्राम–विकासः सुदृढः भविष्यति।
३० विकास–कार्याणां शिलान्यासः
तेन एव सूचितं यत्पञ्चायत–ग्रामीण–यान्त्रिकी–सेवा,पञ्चायत–ग्रामीण–विकास–विभागः (प्रधानमन्त्री–कृषि–सिंचाई–योजना–वाटरशेड–विकासः),प्रधानमन्त्री–ग्राम–मार्ग–योजना,पी.आई.यू.–विभागः,लोक–निर्माण–विभागः (भवन–सड़क–संभागः)अन्तर्गतं ३० विकास–कार्याणां शिलान्यासः भविष्यति।एतेषां कार्याणां कृते १३३ कोटि ६२ लक्ष ६७ सहस्र–रूप्यकाणां व्ययः अनुमानितः अस्ति।
प्रशिक्षण–सह–उन्मुखीकरण–कार्यक्रमः
जनसम्पर्क–अधिकारिणः मतेन बहरी–क्षेत्रे विविध–विभागीय–हितग्राहिणांप्रशिक्षण–सह–उन्मुखीकरण–कार्यक्रमः अपि आयोज्यते।अनेन शासनस्य जनकल्याणकारी–योजनानां सूचना हितग्राहिणां समीपं प्रत्यक्षरूपेण प्राप्स्यति तथा योजनानां प्रभावी–क्रियान्वयने साहाय्यं भविष्यति।कार्यक्रमेराज्यमन्त्री (स्वतन्त्र–प्रभारः) कुटीर–ग्रामोद्योग–विभागस्यतथा जनपद–प्रभारी–मन्त्री दिलीप–जायसवालः,स्थानीय–सांसदः डॉ.राजेश–मिश्रः,विधायकाः विश्वामित्र–पाठकः, रीती–पाठकः, कुँवर–सिंह–टेकामः, अजय–सिंहः,जिला–पञ्चायत–अध्यक्षः मञ्जु–रामजी–सिंहः,पूर्व–विधायकः शरदेन्दु–तिवारी,वरिष्ठ–समाजसेवी देवकुमार–सिंह–चौहानःविशिष्ट–अतिथिरूपेण उपस्थिताः भविष्यन्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani