Enter your Email Address to subscribe to our newsletters

मध्यप्रदेशे धान्यक्रयणं २० जनवरीपर्यन्तं भविष्यति
भोपालम्, ०९ जनवरीमासः (हि.स.)। मध्यप्रदेशस्य खाद्य–नागरिक–आपूर्ति–तथा उपभोक्ता–संरक्षण–मन्त्री श्रीगोविन्द–सिंह–राजपूत: शुक्रवासरे सूचितवान् यत् अद्यतनकाले ६,७८,११३ कृषकानाम् धान्यविक्रयात् ४४,८२,०७५ मीट्रिक–टन धान्यं न्यूनतम–समर्थन–मूल्ये क्रेतुं लब्धम्। मन्त्री अवदत् यत् अस्मिन्नेव वर्षे धान्यक्रयणं गतवर्षतुलनायां १,२९,००० मीट्रिक–टन अधिकम् अभवत्। गतवर्षे धान्यक्रयणं ४३,५२,९०५ मीट्रिक–टन अभवत्। न्यूनतम–समर्थन–मूल्यं प्रति कुन्तलं २,३६९ रूप्यकाणि निश्चितानि। धान–विक्रयाय कृषकाः १३ जनवरीपर्यन्तं स्थानसुरक्षितं कर्तुं शक्नुवन्ति। मन्त्री श्रीराजपूत: आग्रहं कृतवान् यत् कृषकाः निर्धारित–समये स्थानसुरक्षितम् अवश्यं कुर्यु:। धान्यक्रयणं २० जनवरी २०२६ पर्यन्तं भविष्यति। एतेभ्य: कृषकेभ्य: ६,९४२ कोटि रूप्यकात् अधिक–राशिः प्रदत्ता। उल्लेखनीयम् यत् धान्य–विक्रयाय ८,५९,९१६ कृषकाणाम् पञ्जीकरणम् संपन्नम्। १ दिसम्बरमासात् आरभ्य धान्यक्रयणं विभिन्न–जनपदेषु १,४३६ केन्द्रेषु सम्पादिता। क्रीतानां धान्यानां ७५.३% मात्रा ३३,७५,१०९ मीट्रिक–टन परिवहनं कृतम् अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता