हिमाचलस्य ग्रामीणमार्गेभ्य केंद्रतः महत् राजस्वं, दिल्ल्यां जातमुपवेशनम्
शिमला, 09 जनवरीमासः (हि.स.)। हिमाचलप्रदेशस्य पर्वतीय, ग्रामीण तथा दूरस्थप्रदेशान् मार्गैः संयोजयितुं यत् आयोजनं प्रवर्तते, तस्मिन् विषये एका महत्त्वपूर्णा पहल दृष्टिगोचरा जाता अस्ति। प्रधानमन्त्री ग्रामसडक् योजना–चतुर्था इत्यस्य अन्तर्गतं राज्या
विक्रमादित्य सिंह की केंद्रीय मंत्री शिवराज चौहान से मुलाकात


शिमला, 09 जनवरीमासः (हि.स.)।

हिमाचलप्रदेशस्य पर्वतीय, ग्रामीण तथा दूरस्थप्रदेशान् मार्गैः संयोजयितुं यत् आयोजनं प्रवर्तते, तस्मिन् विषये एका महत्त्वपूर्णा पहल दृष्टिगोचरा जाता अस्ति। प्रधानमन्त्री ग्रामसडक् योजना–चतुर्था इत्यस्य अन्तर्गतं राज्याय सहस्रकोटिरूप्यकाणां प्रस्तावानां विषये केन्द्रसरकारस्तरे गम्भीरतया विचारः क्रियते। अस्याः योजनायाः माध्यमेन तानि ग्रामाणि मार्गैः संयोजयितुं लक्ष्यं निश्चितं कृतम्, ये अद्यापि सम्पर्कविहीनाः सन्ति।

एतस्मिन्नेव सन्दर्भे गुरुवासरे सायङ्काले हिमाचलप्रदेशस्य लोकनिर्माणमन्त्री विक्रमादित्यसिंहः नूतनदिल्ल्यां केन्द्रीयग्रामीणविकासकृषिकिसानकल्याणमन्त्रिणा शिवराजसिंहचौहानः सह मुलाकातं कृतवान्। अस्यां बैठके PMGSY IV अन्तर्गतं राज्याय प्रदत्तानां स्वीकृतीनां तथा लम्बितप्रस्तावानां विषये विस्तृता चर्चा अभवत्।

लोकनिर्माणमन्त्रीणा केन्द्रीयमन्त्रिणे निवेदितं यत् PMGSY IV अन्तर्गतं हिमाचलप्रदेशाय प्रायः 2300 कोटिरूप्यकाणां समग्रपरियोजनालागतयुक्तः एकः पैकेजः प्रस्तावितः अस्ति। अस्य अन्तर्गतं राज्यसरकारया 294 मार्गप्रस्तावाः प्रेषिताः सन्ति, येषां समग्रदीर्घता 1538 किलोमीटरपरिमिता अस्ति। एतेषां मार्गाणां निर्माणेन 250 अधिकाः बस्तयः संयोजयिष्यन्ते, अपि च 429 बस्तयः प्रथमवारं मार्गसुविधां प्राप्स्यन्ति, याः अद्यावधि पूर्णतया असम्पर्किताः आसन्।

विक्रमादित्यसिंहः अवदत् यत् एषः पैकेजः हिमाचलप्रदेशस्य पर्वतीयेषु तथा दुर्गमेषु ग्रामीणप्रदेशेषु सामाजिकआर्थिकपरिवर्तनाय महती अवसररूपेण वर्तते। उत्तममार्गैः जनानां नित्यागमनं सुकरं भविष्यति तथा स्वास्थ्यशिक्षारोजगारादीनां मूलभूतसुविधानां प्रति पहुँचः दृढा भविष्यति। तेन केन्द्रसरकारं प्रति अनुरोधः कृतः यत् एते प्रस्तावाः शीघ्रं स्वीकर्तव्याः, येन योजनाः शीघ्रं भूमौ कार्यान्विताः भवितुं शक्नुवन्ति।

बैठकायां लोकनिर्माणमन्त्रीणा प्रधानमन्त्री ग्रामसडक् योजना–प्रथमा अन्तर्गतं डोडरा क्वार क्षेत्रस्य लरोत–किटरवाडी मार्गस्य अवशिष्टानां त्रीणां पैकेजानां विषयः अपि उपस्थापितः। तेन उक्तं यत् एषः क्षेत्रः अत्यन्तं दुर्गमः, उन्नतप्रदेशयुक्तः तथा कठिनभौगोलिकपरिस्थितियुक्तः अस्ति। अतः योजनायाः औपचारिकावधिः समाप्ता सन्नपि, जनहितदृष्ट्या एते पैकेजाः सहानुभूतिपूर्वकं समावेश्याः इति आवश्यकम्।

तदनन्तरं तेन हिमाचलप्रदेशे प्रवर्तमानानां विविधानां मार्गनिर्माणकार्याणां कृते केन्द्रसरकारात् प्रायः 76 कोटिरूप्यकाणां लम्बितराशेः शीघ्रवितरणाय अपि आग्रहः कृतः, येन परियोजनानां गतिः तीव्रा भवेत्।

केन्द्रीयमन्त्री शिवराजसिंहचौहानः हिमाचलप्रदेशस्य ग्रामीणमार्गजालं अधिकं सुदृढं कर्तुं केन्द्रसरकारया पूर्णसहयोगस्य आश्वासनं दत्तवान्। तेन अधिकारिणः लम्बितराशेः शीघ्रवितरणाय निर्देशिताः तथा डोडरा क्वार मार्गविषयं सरकारस्य उपयुक्तस्तरे प्रस्तोतुं अपि आश्वासनं प्रदत्तम्।

---------------

हिन्दुस्थान समाचार