Enter your Email Address to subscribe to our newsletters

जयपुरम्, ०९ जनवरीमास: (हि.स.)।मुख्यमन्त्री भजनलाल–शर्मणा नेतृत्वे आयोजितं ‘राइजिङ्ग–राजस्थान–ग्लोबल–इन्वेस्टमेंट–शिखर–सम्मेलनम्–२०२४’ राज्यस्य आर्थिक–दिशे नूतनां गतिं दत्तवान्। अस्मिन् सम्मेलने ३५–लक्ष–कोटि–रूप्यकाधिकेषु ११–सहस्राधिकेषु एम–ओ–यू–सन्धिसु हस्ताक्षराः कृताः, येषु बहवः निवेश–परियोजनाः अद्य भूमिभेदन–(ग्राउण्डब्रेकिङ्ग)–चरणं प्राप्ताः सन्ति। एषा स्थितिः सम्मेलनेन प्राप्तस्य सफलतायाः तथा निवेशकेषु वर्धमानस्य विश्वासस्य स्पष्टं सूचकं वर्तते।सम्मेलनानन्तरं निवेश–प्रस्तावानां भूमौ अवतरण–प्रक्रिया तीव्रगत्या प्रवर्तते। विशेषतः कृषि–क्षेत्रे ७–सहस्र–कोटि–रूप्यकाधिकाः निवेश–परियोजनाः भूमिभेदन–चरणं प्राप्ताः। एताभिः परियोजनाभिः राज्ये मूल्य–संवर्धनम्, भण्डारण–व्यवस्था, खाद्य–प्रसंस्करणम् तथा कृषि–अवसंरचनायाः सुदृढीकरणं भविष्यति इति अपेक्षा अस्ति। अस्मिन् क्षेत्रे कार्या–केमिकल्स–एण्ड–फर्टिलाइजर्स-बालमार्ट–माल्टिङ्ग-बीकाजी–फूड्स–इण्टरनेशनल् इत्यादीनां प्रमुख–संस्थानां परियोजनाः कार्यान्वयन–स्थितौ सन्ति। चिकित्सीय–स्वास्थ्य–क्षेत्रे अपि निवेशस्य वेगः द्रष्टुं शक्यते।चिकित्सा–शिक्षा–आयुष–समेतम् अस्मिन् क्षेत्रे १२–सहस्र–कोटि–रूप्यकाधिकाः परियोजनाः भूमिभेदन–चरणं प्राप्ताः। एताभिः चिकित्सालयानां क्षमता वर्धिष्यते, चिकित्सा–प्रशिक्षण–संस्थानानां संशोधनं भविष्यति, तथा सामान्य–जनानां कृते गुणवत्तापूर्णाः स्वास्थ्य–सेवाः सुलभाः भविष्यन्ति। अत्र सी.के.बिडला-चिकित्सालया:, भगवान्–महावीर–कैंसरचिकित्सालया:, श्री–जी–लेबोरेटरी–प्राइवेट–लिमिटेड, फॉर्च्यून–फाउण्डेशन, निर्वाण–विश्वविद्यालय–जयपुरम् इत्यादीनां परियोजनाः प्रमुखाः सन्ति।खनन–क्षेत्रे अपि राजस्थानं नूतन–उन्नतिं प्रति अग्रसरम् अस्ति।३३–सहस्र–कोटि–रूप्यकाधिकाः ३०–अधिकाः परियोजनाः भूमिभेदन–चरणं प्राप्ताः। वेदान्ता–लिमिटेड, इण्डियन–ऑयल–कॉर्पोरेशन, इन्द्रप्रस्थ–गैस्–लिमिटेड, अल्ट्राटेक–सीमेण्ट, एजीपी–सीजीडी–इण्डिया इत्यादीनां बृहत्–निर्माणिनां परियोजनाः अस्मै क्षेत्राय नूतनां दिशं ददति। अनेन खनिज–सम्पदा–समृद्धेषु जनपदेषु रोजगार–अवसराः वर्धिष्यन्ति, स्थानीय–अर्थव्यवस्था च सुदृढा भविष्यति।समग्रतः, ‘राइजिङ्ग–राजस्थान’–सम्मेलनस्य परिणामाः राज्ये निवेश–पर्यावरणे महत् सकारात्मक–परिवर्तनं दर्शयन्ति। नीतिगत–संशोधनै:, प्रशासनिक–सहयोगेन तथा निवेशकानां सक्रिय–सहभागितया एम-ओ–यू–सन्धि: अद्य केवलं कागदेषु न तिष्ठन्ति, अपि तु भूमौ मूर्तरूपेण परिणमन्ति, ये राजस्थानस्य आर्थिक–सामाजिक–विकासस्य दृढम् आधारं निर्मान्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता