अखिल-भारतीय-विद्यार्थी-परिषदा‘ खेलो भारत’ अन्तर्गतं त्रिदिवसीयः नगर-खेल-कुम्भः आयोजितः
मण्डीनगरम्, ०९ जनवरीमासः (हि.स.)। मण्डी–नगरे अखिल–भारतीय–विद्यार्थी–परिषद: ‘खेलो भारत’ गतिविध्या अन्तर्गतं त्रिदिवसीयः नगर–खेल–कुम्भः भव्यतया आयोजितः। अस्य आयोजनस्य मुख्यं लक्ष्यं यूनां मध्ये क्रीडा–भावनायाः प्रोत्साहनं, शारीरिक–मानसिक–विकासस्य संव
विजेता टीमों को पुरस्कृत करते हुए मुख्यअतिथि व अन्य।


मण्डीनगरम्, ०९ जनवरीमासः (हि.स.)। मण्डी–नगरे अखिल–भारतीय–विद्यार्थी–परिषद: ‘खेलो भारत’ गतिविध्या अन्तर्गतं त्रिदिवसीयः नगर–खेल–कुम्भः भव्यतया आयोजितः। अस्य आयोजनस्य मुख्यं लक्ष्यं यूनां मध्ये क्रीडा–भावनायाः प्रोत्साहनं, शारीरिक–मानसिक–विकासस्य संवर्धनं, प्रतिभावतां क्रीडकानां सशक्त–मञ्चे प्रतिष्ठापनं च आसीत्।अपि च, यून: मोबाइल–दूरवाणी–यन्त्राणां तथा डिजिटल–उपकरणानां अत्यधिक–आश्रयात् (स्क्रीन–टाइम्) दूरं नीत्वा क्रीडा–क्षेत्राणि प्रति आकर्षणं कर्तुं, “ग्रीन–टाइम” प्रति प्रेरयितुं च अयं कार्यक्रमः आयोजितः, येन युवकाः स्वस्थां, सक्रियां, सकारात्मकां च जीवन–शैलीं स्वीकर्तुं शक्नुवन्ति।अस्य नगर–खेल–कुम्भस्य अन्तर्गतं महिला–पुरुष–वर्गयोः हॉकी–स्पर्धा, महिला–पुरुष–वर्गयोः कबड्डी–स्पर्धा, पुरुष–वर्गे वॉलीबॉल–स्पर्धा, वूशु तथा ग्रैपलिङ्ग–क्रीडा–स्पर्धाश्च आयोजिताः।त्रिदिवसीयस्य अस्य खेल–कुम्भस्य समापन–समारोहस्य मुख्य–अतिथि: प्रदीप–शेखावतः आसीत्। विशिष्ट–अतिथित्वेन नरेन्द्र–गुलेरिया तथा हरिश–वैद्यः अपि उपस्थितौ स्तः। अतिथयः स्व–सम्बोधने अखिल–भारतीय–विद्यार्थी–परिषद: ‘खेलो भारत’ गतिविधिं च प्रशंसित्वा यून: क्रीडां जीवनस्य अभिन्नाङ्गं कर्तुं, स्क्रीन–समय: न्यूनं कृत्वा क्रीडा–क्षेत्रै: सह सम्बन्धं वर्धयितुं च आह्वानं कृतवन्तः।कबड्डी–स्पर्धायां महिला–वर्गे नव (९) दलानि भागं गृहीतवन्ती। वल्लभ–महाविद्यालय–मण्डी–दलम् उत्कृष्ठं प्रदर्शनं कृत्वा विजेता अभवत्, जोगिन्दर–नगर–दलं च उपविजेता अभवत्। विजेता–दलं ४१०० रूप्यक–नगद–राश्या सह विजयचिह्नदानेन–दानेन, उपविजेता–दलं ३१०० रूप्यक–नगद–राश्या सह विजयचिह्नदानेन–दानेन च सम्मानितम्।पुरुष–वर्गे अपि कबड्डी–स्पर्धायां नव (९) दलानि भागं गृहीतवन्ती। अन्तिम–स्पर्धा पण्डोह–दलस्य तथा स्पोर्ट्स–क्लब–बनियाल–दलस्य मध्ये अभवत्, यस्मिन् पण्डोह–दलं विजयम् अलभत। विजेता–दलाय ७१०० रूप्यक–नगद–राशिः विजयचिह्नं च, उपविजेता–दलाय ५१०० रूप्यक–नगद–राशिः विजयचिह्नं च प्रदत्तम्।वॉलीबॉल–स्पर्धायां पुरुष–वर्गे षोडश (१६) दलानि भागं गृहीत्वा स्व–कौशलं तथा दल–भावनां उत्कृष्टतया प्रदर्शितवन्ति। सरोआ–दलं विजेता अभवत्, मसेरी–दलं च उपविजेता अभवत्। सरोआ–दलाय ७१०० रूप्यक–नगद–राशिः विजयचिह्नं च, मसेरी–दलाय ५१०० रूप्यक–नगद–राशिः विजयचिह्नं च प्रदत्तम्।हॉकी–स्पर्धायां महिला–वर्गे सप्त (७) दलानि, पुरुष–वर्गे द्वादश (१२) दलानि उत्साहपूर्वकं सहभागीभूतानि। महिला–वर्गे वल्लभ–महाविद्यालय–मण्डी–दलं विजेता अभवत्, हॉकी–क्लब–दलं च उपविजेता अभवत्। पुरुष–वर्गे वल्लभ–महाविद्यालय–टाइगर्स–दलं विजेता अभवत्, ऊना–दलं च उपविजेता अभवत्।पुरस्कार–वितरणे पुरुष–वर्गे विजेता–दलाय २१,००० रूप्यक–नगद–राशिः विजयचिह्नं च, उपविजेता–दलाय ११,००० रूप्यक–नगद–राशिः विजयचिह्नं च प्रदत्तम्। महिला–वर्गे विजेता–दलाय ५,१०० रूप्यक–नगद–राशिः विजयचिह्नं च, उपविजेता–दलाय ३,१०० रूप्यक–नगद–राशिः विजयचिह्नं च प्रदत्तम्।वूशु–ग्रैपलिङ्ग–स्पर्धासु सहभागी क्रीडकाः उत्कृष्टं कौशलं, अनुशासनं, आत्मविश्वासं च प्रदर्शितवन्तः। विविध–भार–वर्गेषु आयोजिताः स्पर्धाः अत्यन्तं मनोरञ्जकाः आसन्। समापनानन्तरं सर्वे विजेता–उपविजेता–क्रीडकाः पदकैः सम्मानिताः। एतत् सम्मानं तेषां कठिन–परिश्रमस्य, निरन्तर–अभ्यासस्य, क्रीडायां समर्पणस्य च प्रतीकम् अभवत्।

हिन्दुस्थान समाचार / अंशु गुप्ता