Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 09 जनवरीमासः (हि.स.)।मुख्यमंत्री पुष्करसिंहधामी पर्यावरणविदः चिपको आन्दोलनस्य प्रणेता तथा पद्मविभूषणसम्मानेन अलंकृतस्य सुन्दरालबहुगुणा महोदयस्य जयन्त्यां तस्य चित्रे पुष्पाणि अर्पयित्वा भावभीनां श्रद्धाञ्जलिम् अकरोत्।
मुख्यमन्त्री अवदत् यत् सुन्दरालबहुगुणा महोदयः स्वस्य तपसा त्यागेन संघर्षेण च प्रकृतिसंरक्षणं जनान्दोलनरूपेण प्रतिष्ठापितवान्। तस्य सम्पूर्णं जीवनं पर्यावरणस्य मानवतायाश्च सन्तुलितसहअस्तित्वस्य सन्देशं ददाति।
सः अवदत् यत् सुन्दरालबहुगुणा महोदयस्य विचाराः अद्यतनपर्यावरणीयसंकटस्य काले अधिकं प्रासङ्गिकाः सन्ति। तेन दर्शितेन मार्गेण एव गत्वा आगामिपीढीनां कृते सुरक्षितं स्वच्छं हरितं च भविष्यं सुनिश्चितं कर्तुं शक्यते।
---
हिन्दुस्थान समाचार