Enter your Email Address to subscribe to our newsletters


कानपुर–नगरम्, ०९ जनवरीमासः (हि.स.)।उत्तरप्रदेशस्य कानपुर–जनपदे शीतवातैः सह अतीव तीव्र–शैत्यस्य प्रभावेण जिला–प्रशासनं संरक्षण–अभियानं तीव्रतया सञ्चालयति।सदर–तहसील–क्षेत्रे रात्रौ विलम्बकालपर्यन्तं विशेष–अभियानानि सञ्चालितानि, ये मार्ग–पार्श्वेषु उन्मुक्त–आकाशे जीवनं यापयन्ति स्म, तेषां जनानां शैत्य–रक्षणाय व्यवस्था कृता।प्रशासनिक–दलानि तानि क्षेत्राणि प्राप्तवन्तः, यत्र शीतस्य प्रभावः अत्यधिकः दृष्टः आसीत्। एतद्विवरणं संयुक्त–न्यायापतिः उपजनपदाधिकारी च सदर–अनुभव–सिंहः रात्रौ दत्तवान्।अनुभव–सिंहः अवदत् यत् तहसीलदार–सदर–विनय–कुमार–द्विवेदी–महोदयस्य नेतृत्वे राजस्व–विभागस्य नगर–निगमस्य च संयुक्त–दलं प्रमुख–चतुष्पथानां, बसयानसंस्थात्राणां तथा रेलस्थानकानां समीपे निवसद्भिः जनैः सह संवादं कृतवान्।तत्र कंबलानि वितरितानि, तथा च उन्मुक्त–स्थाने सुप्तान् जनान् समीपस्थ–विश्रामस्थलं नीत्वा सुरक्षितम् आश्रयं प्रदत्तम्।बहुषु स्थलेषु जनान् उन्मुक्त–आकाशे न स्थातुम् निर्देशः अपि दत्तः।उपजनपदाधिकारिणाऽवदत् यत् अस्य अभियानस्य अन्तर्गतं नगरे नूतनः प्रौद्योगिकी–प्रयत्नः अपि कृतः।प्रमुख–सार्वजनिक–स्थलेषु क्यू–आर–कोड–युक्तानि विज्ञापनानि श्लेषितानि सन्ति।एतान् स्कैन कृत्वा सम्बन्धित–क्षेत्रस्य विश्रामस्थलानाम् अवस्थिति–सूचना, तत्र उपलब्धाः सुविधाः, संरक्षकस्य दूरभाष–संख्या च एकस्मिन्नेव पृष्ठे द्रष्टुमर्हाः।एतेन यात्रिकाणां, प्रवासिनां, छात्राणां तथा सामान्य–नागरिकाणां कृते विश्रामस्थलानां सूचना शीघ्रतया लभ्यते।एस.डी.एम.सदर–अनुभव–सिंहः अवदत् यत् शीतवातैः उन्मुक्त–स्थाने निवसमानानां जनानां सुरक्षा प्रशासनस्य प्रमुखं कर्त्तव्यम् अस्ति।विश्रामस्थलानां क्षमता, स्वच्छता, कंबल–वितरणं, उष्णयन्त्रव्यवस्था च निरन्तरं निरीक्ष्यते, तथा च शीत–कालावधौ एतत् अभियानं सततं प्रवर्तिष्यते।
हिन्दुस्थान समाचार / Dheeraj Maithani