Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 01 अक्टूबरमासः (हि.स.)।
आम आदमीपक्षस्य वरिष्ठनेता तथा दिल्लीनगरनिगमे विपक्षनेता अङ्कुशनारङ्गः दिल्लीसर्वकारस्य ‘कचरातः दिल्लीस्वातन्त्र्यम्’ इति स्वच्छताभियानं केवलं प्रदर्शनमात्रमिति कथितवान्। अस्मिन् वर्षे दिल्लीसर्वकारेण ‘दिल्ली कचरातः स्वातन्त्र्यम् स्वच्छताभियानम् २०२६’ इति अभियानं अगस्तमासस्य १७ दिनाङ्कात् अक्टोबरमासस्य २ दिनाङ्कपर्यन्तं सञ्चालितम्।
अङ्कुशनारङ्गस्य आरोपानुसारं चतुर्णाम् इञ्जिनानां सर्वकारे विद्यमानेऽपि दिल्लीस्य वीथीषु, मोहल्लेषु मार्गेषु च सर्वत्र कचरस्य राशयः दृश्यन्ते। तेन प्रश्नः उपस्थितः यत् मन्त्रिणौ प्रवेशवर्मा आशीषसूदश्च स्वच्छेषु मार्गेषु स्वच्छताभियानं सञ्चालयन्तौ जनसामान्याय किं सन्देशं दातुमिच्छतः, यदा नगरे अनेकस्थलेषु कचरस्य समस्या विद्यमानैव अस्ति।
अङ्कुशनारङ्गः अवदत् यत् अस्य अभियानस्य नाम ‘दिल्ली कचराय स्वातन्त्र्यम्’ इति भवितुमर्हति। तस्य मतानुसारं सर्वकारस्य सत्तारूढत्वानन्तरं लघ्वीभ्यः वीथीभ्यः आरभ्य लोकनिर्माणविभागस्य मार्गपर्यन्तं विभिन्नेषु स्थलेषु कचरः सञ्चितः दृश्यते। पूर्वं यत्र कतिपयेषु निर्धारितस्थानेषु कचरः सङ्गृह्यते स्म, अधुना तु अनेकाः वीथयः मार्गाश्च कचरसंवेदनशीलस्थलरूपेण परिणताः सन्ति।
सः अवदत् यत् मुख्यमन्त्री रेखागुप्ता, महापौरः प्रवेशवाही, मन्त्रिणौ प्रवेशवर्मा आशीषसूदश्च मार्गेषु अवतीर्य स्वच्छताभियानं सञ्चालयन्ति। किन्तु दिल्लीस्य विभिन्नेषु क्षेत्रेषु कचरसमस्यायाः स्थायिसमाधानाय ठोसप्रयत्नः न क्रियते।
आपनेता कचरापर्वतानाम् अपि विषयम् उत्थाप्य अवदत् यत् मुख्यमन्त्री रेखागुप्ता तथा मन्त्री मनजिन्दरसिंहसिरसा च कचरापर्वतं गत्वा त्रिमासाभ्यन्तरे तं दूरीकर्तुं वचनं दत्तवन्तौ। तथापि एकवर्षं व्यतीतमपि कचरापर्वतः पूर्ववत् एव स्थितः अस्ति। तेन आरोपितं यत् कचरापर्वतः अधिकोन्नतः अभवत् तथा सर्वकारः केवलं प्रचारार्थं छायाचित्रग्रहणार्थं च अभियानं सञ्चालयति।
नारङ्गः मुख्यमन्त्रिणं रेखागुप्तां महापौरं प्रवेशवाहिं च दिल्लीस्य स्वच्छताव्यवस्थायां प्रमादं कुर्वन्ताविति आरोपितवान्। तेन उक्तं यत् सर्वकारेण अभियानस्य नाम परिवर्त्य ‘दिल्ली कचराय स्वातन्त्र्यम्’ इति कर्तव्यम्, यतः वर्तमानस्थितौ कचरातः अधिकं कचरमेव स्वातन्त्र्यं प्राप्नोतीव दृश्यते।
तेन उक्तं यत् सर्वकारस्य मन्त्रिणः, मुख्यमन्त्री, महापौरः, उपमहापौरश्च केवलं प्रचारमाध्यमेन जनसामान्यं भ्रान्तिं नयन्ति। तथापि नारङ्गः आशां व्यक्तवान् यत् दिल्लीस्य स्वच्छताव्यवस्थायां सुधारः भविष्यति तथा सर्वकारः राजधानीतः कचरं दूरीकर्तुं वास्तविकानि दृढपदानि स्वीकरिष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani