केन्द्रसर्वकारस्य ‘विशेषाभियानं ६.०’ अन्तर्गतं स्वच्छतायै ई-कचरानिस्तारणाय अभिलेखप्रबन्धनाय च विशेषं बलम्
नवदिल्ली, १ अक्टोबरमासः (हि.स.)। केन्द्रसर्वकारः ‘विशेषाभियान ६.०’ इत्यस्य अन्तर्गतं ३१ अक्टोबरमासपर्यन्तं व्यापक-रूपेण स्वच्छताकार्यं लम्बित-प्रशासनिक-विषयाणां च निस्तारणं करिष्यति। एतदभियानं प्रशासनिकसुधार-लोक-सूचनाविभागेन प्रारब्धम् अस्ति। केन्
स्वच्छता अभियान के दौरान लोग मौजूद।


नवदिल्ली, १ अक्टोबरमासः (हि.स.)। केन्द्रसर्वकारः ‘विशेषाभियान ६.०’ इत्यस्य अन्तर्गतं ३१ अक्टोबरमासपर्यन्तं व्यापक-रूपेण स्वच्छताकार्यं लम्बित-प्रशासनिक-विषयाणां च निस्तारणं करिष्यति। एतदभियानं प्रशासनिकसुधार-लोक-सूचनाविभागेन प्रारब्धम् अस्ति।

केन्द्रीयसंस्कृतिमन्त्रालयस्य अनुसारम् अस्य अभियानस्य अन्तर्गतं मन्त्रालयेन १६ तः ३० सेप्टेम्बरमासपर्यन्तं सञ्चालिते सज्जताचरणे कार्यालयेषु, अधीनस्थ-संस्थासु स्वायत्तसङ्गठनेषु च राष्ट्रव्यापिनः अभियानस्य रूपरेखा तथा लक्ष्याणि निर्धारितानि।

अस्मिन् वर्षे अभियानस्य समये सर्वकारीयकार्यालयेषु ई-कूटकस्य वैज्ञानिकरीत्या निस्तारणे, अभिलेख-प्रबन्धने तथा कार्यस्थलस्य कार्यदक्षता-वर्धने च विशेषं ध्यानं दीयते।

प्रारम्भिकचरणे मन्त्रालयेन निर्धारितानां प्राथमिकतानां विवरणानुसारं देशव्यापिनं स्वच्छताभियानं सञ्चालयितुं ५९५ विशिष्टस्थलानि चिह्नितानि। प्रशासनिक-कार्याणां गतिवर्धनाय ३१,५१५ भौतिक-सञ्चिकानां तथा ३२३ ई-सञ्चिकानां समीक्षा करिष्यते। लम्बितसन्दर्भाणां निस्तारणस्य अन्तर्गतं ८० सांसद-सन्दर्भाणां, ४६ संसदीय-आश्वासनानां, २६ प्रधानमन्त्रिकार्यालय-सन्दर्भाणां, २८ राज्यसर्वकारसन्दर्भाणां, ९२ सार्वजनिकशिकायतीनां तथा ४४ विभागीयापीलानां शीघ्रनिस्तारणस्य लक्ष्यं निर्धारितम् अस्ति।

अस्मिन् अवधौ अभिलेखप्रबन्धनविषये प्रशिक्षणसत्राणि आयोजितानि तथा अभिलेखकक्षाणां निरीक्षणं कृतम्। पुरातनसञ्चिकानां नियमानुसारं चयन-करणस्य प्रक्रियापि पूर्णा कृता।

गान्धीजयन्त्याः अवसरे भारतीयपुरातत्त्व-सर्वेक्षणस्य समन्वयेन दिल्ली इत्यत्र ऐतिहासिकस्य पुरानाकिला-परिसरस्य “एकदिनम्, एकघण्टा, एकसाथम्” इति श्रमदानस्य व्यापक-वृक्षारोपणस्य च अभियानम् आयोजयिष्यते। अस्मिन् मन्त्रालयस्य वरिष्ठाधिकारिणः कर्म-चारिणश्च सक्रियतया सहभागितां करिष्यन्ति।

अभियानस्य अवधौ प्रतिदिनस्य प्रगतेः तात्कालिकनिरीक्षणं डीएआरपीजी-सञ्चालितस्य एससीडीपीएम-पटलस्य माध्यमेन करिष्यते। अस्मिन् पटले नियमितरूपेण विवरणानि अद्यतनानि करिष्यन्ते। मन्त्रालयस्य सर्वा: संस्थाः निर्धारितलक्ष्याणां समयबद्धरीत्या पूर्तये पूर्णतया सक्रियाः सन्ति।

Hindusthan Samachar / Divya Ranjan