Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १ अक्टोबरमासः (हि.स.)। संयुक्तअरब-अमीरातेषु भारतस्य राजदूतेन डॉ. दीपकमित्तलेन वाणिज्यदूतेन डॉ. ई. विष्णुवर्धनेन रेड्डिना च कैप्टन् स्मित् इत्यस्य कुटुम्बजनैः सह साक्षात्कारं कृत्वा कॉकपिट्-कक्षे घटितायां घटनायां प्राप्तानां क्षतानां पश्चात् तस्य स्वास्थ्यस्थितेः स्थिरसुधारस्य विषये सूचना प्राप्ता। कैप्टन इत्यस्य कुटुम्बं दुबईनगरे निवसति। दुबईस्थितेन भारतस्य वाणिज्यदूतावासेन प्रकाशिते आधिकारिके सन्देशे एतस्य साक्षात्कारस्य सूचना प्रदत्ता।
मुम्बईनगरस्य फ्लाईदुबई-विमानचालकः कैप्टन् स्मिथ दुबईतः तेल-अवीव-नगरं प्रति गच्छत्याः एफजेड-१०७३-विमानसेवायाः यात्रायां ओमानदेशीय-सहविमानचालकेन कृतस्य आक्रमणस्य समक्षं कृतवान्। आहतः सन् अपि सः कॉकपिट्-कक्षस्य द्वारम् उद्घाटितवान्, येन विमानस्य दलसदस्याः यात्रिणश्च आक्रमणकर्तारं नियन्त्रितुं शक्नुवन् तथा १७४ जनानां प्राणाः रक्षिताः।
दीपकमित्तलेन सामाजिकमाध्यमे ‘एक्स’-स्थले उक्तं, “वयं कैप्टन् स्मित् मच्छरेण गौरवान्विताः स्मः। सः बहूनां जनानां प्राणान् रक्षित्वा महतीं दुर्घटनां निवारितवान्। वयम् अधुनैव तस्य कुटुम्बेन सह मिलित्वा तेषां प्रति संवेदनाः प्रकटितवन्तः। भारतीयवीरस्य स्वास्थ्यस्य कुशलक्षेमस्य च सुनिश्चिततायै भारतसर्वकारस्य पूर्णसमर्थनं भविष्यतीति अपि तेषां आश्वासनं दत्तम्।”
विमानं सऊदी-अरबदेशस्य तबूक-नगरे आपत्कालीनं अवतरणं कृतवान्। भारतीयाधिकारिणः तस्य उपचारार्थं संयुक्तअरब-अमीरातस्य सऊदी-अरब-देशस्य च सम्बन्धिताधिकारिभिः सह समन्वयं निरन्तरं कुर्वन्ति। प्रधानमन्त्री नरेन्द्रमोदी तथा इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यादयः विश्वनेतारः अपि तस्य साहसस्य प्रशंसां कृतवन्तः।
Hindusthan Samachar / Divya Ranjan