Enter your Email Address to subscribe to our newsletters

रांची, 01 अक्टूबरमासः (हि.स.)।
विश्वहिन्दूपरिषदः पूर्वाध्यक्षस्य अशोकसिंहलस्य जन्मशताब्दीवर्षम् उपलक्ष्य विश्वहिन्दूपरिषदा वर्षपर्यन्तं विविधाः धार्मिकाः, सांस्कृतिकाः, सामाजिकाः सेवामूलकाः च कार्यक्रमाः आयोजयिष्यन्ते। तदन्तर्गतं सेवाकार्याणां विस्ताराय, वैदिकशिक्षायाः प्रसाराय, गोरक्षणाय, धर्मान्तरणनिवारणाय, मन्दिरमुक्त्यै च विशेषवेगेन कार्यं करिष्यते।
विश्वहिन्दूपरिषदः प्रान्ताध्यक्षः चन्द्रकान्त रायपत् गुरुवासरे राञ्चीनगरस्य एकस्मिन् होटले आयोजितायां वार्ताहरसम्मेलने अवदत् यत् झारखण्डे जन्मशताब्दीसमारोहस्य भव्य उद्घाटनं अक्टोबरमासस्य चतुर्थे दिवसे धुर्वास्थिते सरस्वतीविद्यामन्दिरस्य परिसरे भविष्यति। कार्यक्रमस्य मुख्यातिथिरूपेण राष्ट्रियस्वयंसेवकसङ्घस्य प्रान्तसङ्घचालकः सच्चिदानन्द अग्रवालः, विशिष्टवक्तृरूपेण विश्वहिन्दूपरिषदः केन्द्रीयमन्त्री तथा केन्द्रीयविशेषसम्पर्कप्रमुखः, पटनाक्षेत्रस्य पालकाधिकारी च अम्बरीषः उपस्थितः भविष्यति। विशेषातिथिरूपेण प्रसिद्धः लोककविः गायकश्च पद्मश्री-महावीरनायकः अपि उपस्थितः भविष्यति।
अस्मिन् समारोहे सम्पूर्णप्रान्तात् बहुसंख्याकाः कार्यकर्तारः सनातनसमाजस्य च प्रबुद्धजनाः समागत्य श्रद्धेयस्य अशोकसिंहलस्य स्मरणं करिष्यन्ति तथा तेन प्रारब्धानां अपूर्णकार्याणां पूर्तये सङ्कल्पं स्वीकरिष्यन्ति।
वार्ताहरसम्मेलनस्य समये झारखण्डप्रान्तमन्त्री मिथिलेश्वरमिश्रः, बजरङ्गदलस्य प्रान्तसंयोजकः रङ्गनाथमहतो, महानगराध्यक्षः कैलाशकेशरी, प्रान्तप्रचारप्रमुखः प्रकाशरञ्जनः, अमरनाथठाकुरः, अनिलतिवारी च उपस्थिताः आसन्।
उल्लेखनीयं यत् अशोकसिंहलस्य जन्म १९२६ तमस्य वर्षस्य सेप्टेम्बरमासस्य सप्तविंशतितमे दिवसे आग्रानगरे प्रतिष्ठिते परिवारे अभवत्। सिंहलेन स्वजीवनं राष्ट्रस्य धर्मस्य च सेवायै सम्पूर्णतया समर्पितम्। १९५० तमे वर्षे काशीहिन्दूविश्वविद्यालयात् अभियान्त्रिकीशिक्षां सम्पूर्य सः राष्ट्रियस्वयंसेवकसङ्घस्य प्रचारकः अभवत्। १९८२ तमे वर्षे सः विश्वहिन्दूपरिषदः संयुक्तमहामन्त्रिणः दायित्वं स्वीकृतवान्। ततः परं महामन्त्रिरूपेण, अध्यक्षरूपेण, जीवनपर्यन्तसंरक्षकरूपेण च सङ्घटनस्य मार्गदर्शनं कृतवान्।
सामाजिकसमरसतायाः, गोरक्षणस्य, धर्मान्तरणनिवारणस्य तथा वैदिकशिक्षायाः प्रचारप्रसारस्य क्षेत्रेषु तेन निरन्तरं योगदानं प्रदत्तम्। वैदिकशिक्षायाः प्रसाराय वेदविद्यालयानां स्थापनायामपि तस्य महत्त्वपूर्णं योगदानम् आसीत्। श्रीरामजन्मभूम्याः आन्दोलनं राष्ट्रव्यापिनं कृत्वा समाजस्य सर्वेषां वर्गाणां जनानां संयोजने तस्य महत्त्वपूर्णा भूमिका आसीत्।
--------------
Hindusthan Samachar / Dheeraj Maithani