शाहः तृतीये अक्टोबरमासे भोपालम् आगमिष्यति, मध्यप्रदेशाय प्रदास्यति विविधाः विकासोपहाराः
— राज्यस्तरीय-गोपालकसम्मेलने पशु-पालकभगिनीभ्यः सम्मानं दास्यति, विविधविकासकार्याणां शुभारम्भं च करिष्यति भोपालम्, १ अक्टोबरमासः (हि.स.)। ‘सेवासङ्कल्प-अभियानस्य’ अन्तर्गतं केन्द्रीयगृहमन्त्री अमितशाहः अग्रिमे ३ अक्टोबरमासे मध्यप्रदेशस्य प्रवासे भोप
अमित शाह यांचा संग्रहित फोटो


— राज्यस्तरीय-गोपालकसम्मेलने पशु-पालकभगिनीभ्यः सम्मानं दास्यति, विविधविकासकार्याणां शुभारम्भं च करिष्यति

भोपालम्, १ अक्टोबरमासः (हि.स.)। ‘सेवासङ्कल्प-अभियानस्य’ अन्तर्गतं केन्द्रीयगृहमन्त्री अमितशाहः अग्रिमे ३ अक्टोबरमासे मध्यप्रदेशस्य प्रवासे भोपालम् आगमिष्यति। सः अत्र भेल-दशहरा-प्रांगणे आयोजिते ‘राज्यस्तरीय-गोपालकसम्मेलने’ भागं गृहीत्वा उत्कृष्टकार्यं कुर्वतीः गोपालकभगिनीः सम्मानयिष्यति। सः ‘डा. भीमराव-आम्बेडकर-कामधेनु-योजनायाः’ स्वीकृतिपत्राणां वितरणमपि करिष्यति। तदतिरिक्तं प्रदेशवासिभ्यः दुग्ध-प्रसंस्करणेन, दुग्धसंयन्त्रेण, गुणवत्ता-परीक्षणप्रयोगशालया च सम्बद्धानां विविधविकासयोजनानां उपहारान् प्रदास्यति।

जनसम्पर्काधिकारी सुनीलवर्मा गुरुवासरे अवदत् यत् सम्मेलने केन्द्रीयगृहमन्त्री शाहः २५५ कोटिरूप्यकाणां व्ययेन उज्जयिन्यां निर्मीयमाणस्य नवीनस्य दुग्धसंयन्त्रस्य भूमिपूजनं करिष्यति। तदतिरिक्तं १६.८० कोटिरूप्यकाणां व्ययेन निर्मितस्य किण्वित-उत्पाद-दुग्धसंयन्त्रस्य तथा भोपालस्थिते मध्यप्रदेश-राज्य-सहकारी-दुग्ध-महासंघे ‘नेशनल प्रोग्राम फॉर डेयरी डेवलपमेंट’ इत्यस्य अन्तर्गतं १२.४० कोटिरूप्यकाणां व्ययेन निर्मितस्य अत्याधुनिकस्य प्रयोगशालायाः, शिवपुरीस्थस्य लघुदुग्धसंयन्त्रस्य च शुभारम्भः भविष्यति। कार्यक्रमे भोपाल-दुग्धसंघस्य इन्दौर-दुग्धसंघस्य च दुग्धोत्पादकेभ्यः प्रायः १२ कोटिरूप्यकाणां बोनसधनराशिः वितरिष्यते। ‘कृषक-कल्याणवर्षस्य’ अन्तर्गतं पशुपालन-दुग्धविभागेन विशेषप्रदर्शिनी अपि आयोजयिष्यते।

सः अवदत् यत् प्रदेशसर्वकारेण पञ्जीकृतासु सञ्चालितासु च गोशालासु संरक्षितस्य गोवंशस्य रक्षण-पोषणार्थं जुलाई-अगस्तमासयोः २०२६ तमस्य वर्षस्य १०१ कोटिरूप्यकाणाम् अधिका अनुदानराशिः ऑनलाइन-डीबीटी-माध्यमेन प्रत्यक्षं खातेषु हस्तान्तरिता करिष्यते। एषा राशि गोशालासु पञ्जीकृतस्य गोवंशस्य समुचित-व्यवस्थापनाय, आहाराय भरणपोषणाय च प्रदीयते। राज्यसर्वकारेण पञ्जीकृतासु सञ्चालितासु च गोशालासु संरक्षितस्य गोवंशस्य कृते प्रतिगोवंशं प्रतिदिनं ४० रूप्यकाणां दरया अनुदानराशिः प्रदीयते।

महिलासशक्तीकरणाय ग्रामीण-अर्थ-व्यवस्थायै च प्रोत्साहनम्

जनसम्पर्काधिकारी अनुसारं ‘लखपति-गोपालक-भगिनी-योजना’ पशुपालनक्षेत्रे संलग्नानां ग्रामीणमहिलानां आर्थिक-सशक्तीकरणस्य दिशि महत्त्वपूर्ण: प्रयत्न: अस्ति। उत्तम-आनुवंशिक-क्षमतायुक्तानां पशूनां माध्यमेन दुग्धोत्पादने वृद्धिः, अतिरिक्त-आयस्य अवसराः तथा पशुपालनस्य उत्पादकता च वर्धिष्यते, येन ग्रामीण-अर्थव्यवस्थायाः अपि सुदृढीकरणं भविष्यति। योजनायाः उद्देश्यं पशुपालनं केवलं पारम्परिकजीविकायां सीमितं न कृत्वा ग्रामीणमहिलानाम् आर्थिक-स्वावलम्बनस्य समृद्धेश्च माध्यमत्वेन विकसितुं वर्तते।

प्रदेशसर्वकारेण ग्रामीणमहिलानां पशु-पालनस्य माध्यमेन आर्थिक-स्वावलम्बनं सुनिश्चितं कर्तुं तथा दुग्धोत्पादनं वर्धयितुं ‘लखपति-गोपालक-भगिनी-योजना’ सञ्चाल्यते। “शून्यपूञ्जी-निवेशः, अधिकतमः आनुवंशिकः आर्थिकश्च लाभः” इति मूलमन्त्रे आधारितायां अस्यां योजनायां प्रदेशस्य २ लक्षाधिकाः महिलाः सम्बद्धाः सन्ति। योजनायाः अन्तर्गतं अवर्णित-नस्लीयानां गवां महिषीणां च उच्चवंशीयैः वीर्याणुभिः कृत्रिमगर्भाधानं प्रोत्साह्यते। अनेन पशुपालकेभ्यः अतिरिक्तव्ययम् अन्तरेण उत्तम-आनुवंशिकक्षमतायुक्ताः पशवः प्राप्तुं शक्यन्ते।

Hindusthan Samachar / Divya Ranjan