Enter your Email Address to subscribe to our newsletters

अहमदाबादम्, १ अक्टोबरमासः (हि.स.)। फ्लाईदुबई एफजेड१०७३ विमाने १७४ यात्रिणां प्राणरक्षणे महत्त्वपूर्णां भूमिकां निर्वुढवान् विमानस्य कप्तान् स्मित-मच्छरः गुजरातसर्वकारेण ‘विशिष्ट-गुजरातगरिमापुरस्कारेण’ सम्मानयिष्यते। गुजरातस्य मुख्यमन्त्रिणा भूपेन्द्रपटेलेन भारतीयकप्तान इत्यस्य मच्छरस्य साहसं प्रशंस्य एषा घोषणा कृता।
दुबईतः तेलअवीवम् प्रति गच्छत्याः फ्लाईदुबई-विमानस्य एफजेड१०७३ इत्यस्य १७४ यात्रिणां प्राणरक्षणे महत्त्वपूर्णां भूमिकां निर्वहितवान् भारतीयः विमानचालकः कप्तान् स्मित-मच्छरः सम्प्रति देशे विदेशे च चर्चायां वर्तते। यात्रायाः समये ओमानदेशीयेन सह-विमानचालकेन भारतीयकप्तान इत्यस्य स्मित-मच्छरस्य उपरि कृपाणेन आक्रमणं कृतम्। ततः यात्रिभिः विमानस्य कर्मिभिश्च ज्ञात्वा परिस्थितिं नियन्त्र्य विमानं सऊदी-अरबस्य तबूक-विमानस्थानके सुरक्षिततया अवतारितम्।
गुजरातस्य मुख्यमन्त्रिणा भूपेन्द्रपटेलेन कप्तान् मच्छरस्य साहसं धैर्यं च प्रशंसता घोषणा कृता यत् प्रदेशसर्वकारः तं ‘विशिष्टगुजरातगरिमापुरस्कारेण’ सम्मानयिष्यति। मुख्यमन्त्रिणा सामाजिक-माध्यमे ‘एक्स’पटले लिखितं यत् आकाशे कप्तान् स्मित-मच्छरेण प्रदर्शितं अदम्यं साहसं शौर्यं च असाधारणम् अस्ति। गम्भीररूपेण आहतः सन् अपि सः आक्रमणकर्तारं प्रतिरुद्धवान्। सः महतीं दुर्घटनां निवारयितुं साहाय्यं कृतवान् तथा १७४ यात्रिणां प्राणरक्षणे महत्त्वपूर्णां भूमिकां निर्वुढवान्।
मुख्यमन्त्रिणा उक्तं यत् कप्तान मच्छरः भारतीयः अस्ति तथा च तस्य धमनिषु गुजरातीयं रक्तं प्रवहति, येन गुजरातप्रदेशः सम्पूर्णश्च देशः गौरवान्वितः अस्ति। मुख्यमन्त्रिणा कप्तान मच्छरस्य शीघ्रं पूर्णं च स्वास्थ्यलाभं कामितम्। विमाने उपस्थितैः अन्यैः प्रशिक्षितैः विमानचालकैः परिस्थितिः नियन्त्रिता तथा विमानं सऊदी-अरबस्य तबूके आपत्कालीनरूपेण अवतारितम्। आपत्कालीनावतरणानन्तरं कप्तान स्मित-मच्छरः तबूकनगरस्य चिकित्सालयं नीतः। सम्प्रति तस्य अवस्था स्थिरा इति कथ्यते तथा तस्य उपचारः प्रचलति।
प्रधानमन्त्रिणा मोदिना नेतन्याहुना च अपि प्रशंसा
कप्तान मच्छरस्य साहसस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना इजरायलस्य प्रधानमन्त्रिणा बेंजामिन-नेतन्याहुना च सार्वजनिकरूपेण प्रशंसा कृता। नेतन्याहुना उक्तं यत् गम्भीररूपेण आहतः सन् अपि मच्छरेण संघर्षः कृतः तथा कक्षस्य द्वारम् उद्घाट्य यात्रिभ्यः विमानकर्मिभ्यश्च आक्रमणकर्तारं नियन्त्रयितुं साहाय्यं कृतम्। तेन कप्तान् मच्छरः वास्तविकः नायकः इति कथयित्वा तस्य शीघ्रस्वास्थ्यलाभस्य कामना कृता।
प्रधानमन्त्रिणा मोदिना अपि कप्तान् मच्छरस्य वीरतायाः प्रशंसा कृता। गुजरातभूम्या सम्बद्धं कप्तान् स्मित-मच्छरस्य कुटुम्बम् मूलतः गुजरातस्य सुरेन्द्रनगरजनपदस्य वधवान्-क्षेत्रेण सम्बद्धम् इति कथ्यते, यद्यपि तस्य कुटुम्बं दीर्घकालात् मुम्बईनगरे निवसति। सः अनुभवी वाणिज्यिक-विमानचालकः अस्ति तथा वार्तानुसारं बोइङ्ग् ७३७-विमानपरिवारस्य विमानेषु सहस्रशः घण्टानां विमानचालनस्य अनुभवः तस्य अस्ति। आकाशे कतिपयेषु क्षणेषु उत्पन्नस्य अस्य गम्भीरसङ्कटस्य मध्ये कप्तान् स्मित-मच्छरेण कृतैः निर्णयैः प्रदर्शितेन साहसेन च १७४ यात्रिणां सुरक्षां सुनिश्चितुं महत्त्वपूर्णा भूमिका निर्वोढा। अधुना गुजरातसर्वकारः तं ‘विशिष्ट-गुजरातगरिमापुरस्कारेण’ सम्मानयित्वा तस्य योगदानस्य सम्मानं करिष्यति।
Hindusthan Samachar / Divya Ranjan