तीस्तानद्यां ११७५ कोटिरूप्यकाणां नवसेतुनिर्माणाय अनुमोदनम्, मुख्यमन्त्रिणा केन्द्रसर्वकारस्य कृतज्ञता प्रकटिता
कोलकाता, 01 अक्टूबरमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु अधिकारी गुरुवासरे तीस्तानद्यां १,१७५.५९ कोटिरूप्यकाणां व्ययेन निर्मीयमाणायाः महत्त्वपूर्णायाः सेतुपरियोजनायाः अनुमोदनार्थं केन्द्रसर्वकारस्य कृतज्ञतां प्रकटितवान्। मुख्यमन्त्रिण
शुभेंदु अधिकारी


कोलकाता, 01 अक्टूबरमासः (हि.स.)।

पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु अधिकारी गुरुवासरे तीस्तानद्यां १,१७५.५९ कोटिरूप्यकाणां व्ययेन निर्मीयमाणायाः महत्त्वपूर्णायाः सेतुपरियोजनायाः अनुमोदनार्थं केन्द्रसर्वकारस्य कृतज्ञतां प्रकटितवान्। मुख्यमन्त्रिणा सामाजिकमाध्यमेन प्रधानमन्त्रिणः नरेन्द्रमोदिनः केन्द्रीयसड़कपरिवहनराजमार्गमन्त्रिणः नितिनगडकरिणश्च राज्यस्य जनानां पक्षतः धन्यवादः ज्ञापितः।

सेवके तीस्तानद्यां निर्मीयमाणः अयं षड्भूमिमार्गयुक्तः आधुनिकः सेतुः तस्य सम्पर्कमार्गैः सह ६.९१ किलोमीटरमितः भविष्यति। सः राष्ट्रियमार्गस्य १० क्रमाङ्कस्य भागरूपेण सिक्किमस्य, पूर्वोत्तरराज्यानां तथा सिलीगुडीमार्गस्य सम्पर्कं सुदृढं करिष्यति।

मुख्यमन्त्रिणा स्ववक्तव्ये उक्तं यत् एषा नवीनाधारभूतसंरचनापरियोजना राज्यस्य देशस्य च सामरिकदृष्ट्या अत्यन्तं महत्त्वपूर्णा अस्ति। ‘सिलीगुडी-गलियारा’ इति प्रसिद्धस्य क्षेत्रस्य भौगोलिकसंवेदनशीलतां पर्यावरणीयचुनौतीश्च दृष्ट्वा तीस्तानद्यां उच्चक्षमतायुक्तस्य स्थायिसेतोः आवश्यकता आसीत्। अयं नवीनसेतुः १९४१ तमे वर्षे निर्मितस्य प्राचीनस्य कोरोनेशनसेतोः सुदृढविकल्परूपेण कार्यं करिष्यति।

परियोजनायाः आर्थिकसामरिकलाभान् वर्णयन् मुख्यमन्त्रिणा उक्तं यत् राष्ट्रियमार्गस्य १० क्रमाङ्कस्य उन्नयनेन यात्रिकाणां मालवाहनानां च आवागमनं सुगमं भविष्यति। उत्तरबङ्गस्य, सिक्किमस्य, सम्पूर्णस्य पूर्वोत्तरभारतस्य च क्षेत्रीयापूर्तिशृङ्खला अपि सुदृढा भविष्यति। अस्याः परियोजनायाः माध्यमेन स्थानीयसमुदायानां कृते आर्थिकविकासस्य नवीनाः अवसराः अपि सृज्येरन्।

केन्द्रसर्वकारस्य अस्य निर्णयस्य सहकारीसंघवादस्य उत्तमम् उदाहरणमिति वर्णयन् मुख्यमन्त्रिणा आश्वासनं दत्तं यत् राज्यसर्वकारः सेतुनिर्माणकार्यं शीघ्रं पूर्णं कर्तुं भूमिस्तरे सर्वसम्भवं सहकारं प्रदास्यति।

ज्ञातव्यं यत् पश्चिमबङ्गे नवीनसर्वकारस्य गठनानन्तरं प्रशासनम् उत्तरबङ्गस्य आधारभूतसंरचनायाः विकासाय सक्रियतया कार्यं कुर्वदस्ति। उत्तरबङ्गस्य समग्रार्थिकविकासाय ‘त्रिपल् टी’ इति चायाक्षेत्रं, काष्ठक्षेत्रं पर्यटनक्षेत्रं च प्रवर्धयितुं लक्ष्यं निर्धारितमिति राज्यसर्वकारस्य वरिष्ठेन मन्त्रिणा उक्तम्। एतत् लक्ष्यं प्राप्तुं क्षेत्रस्य आधारभूतसंरचनायाः सुदृढीकरणम् अत्यावश्यकमिति तेन प्रतिपादितम्। तीस्तानद्यां निर्मीयमाणः अयं नवीनसेतुः अस्मिन् दिशि महत्त्वपूर्णं सोपानं भविष्यति।

--------------

Hindusthan Samachar / Dheeraj Maithani