Enter your Email Address to subscribe to our newsletters


मानसिकस्वास्थ्याय संवादः स्वजनानां च सहयोगः आवश्यकः : हिमांशुकुमारसिंहः
देवरिया, १० अक्टोबरमासः (हि.स.)। विश्वमानसिकस्वास्थ्यदिवसस्य अवसरे रोटरीक्लब-देवरिया-सदरस्य तत्त्वावधाने एकस्मिन् स्थानीये होटले स्वास्थ्यविषयिका परिचर्चा आयोजिता। अस्यां परिचर्चायां विशेषज्ञैः मानसिक-स्वास्थ्यसम्बद्धानां समस्यानां, तासां कारणानां निवारणोपायानां च विषये चर्चा कृता। वक्तारः अवदन् यत् मानसिकचिन्ताम् उपेक्षितुं स्थाने तस्य गम्भीरतया विचारः करणीयः। परिवारे संवादेन, परस्परसहयोगेन समये विशेषज्ञाणां साहाय्येन च अनेकासां समस्यानां समाधानं सम्भवति।
कार्यक्रमस्य शुभारम्भः मुख्यातिथिना मनोरोगविशेषज्ञेन डॉ. अनूपकुमार-श्रीवास्तवेन, विशिष्टातिथिना डॉ. विवेकमिश्रेण, आईटीआई-संस्थायाः प्राचार्येण के.के. रामेण, क्लबाध्यक्षेण रोटेरियन-राकेशधरद्विवेदिना तथा सचिवेन रोटेरियन-हिमांशुकुमारसिंहेन दीपप्रज्वालनं कृत्वा कृतः। मनीषशुक्लः अतिथीनाम् स्वागतं कृतवान्, रागिनीसिंहः च अतिथिभ्यः परिचयचिह्नानि पुष्पगुच्छांश्च प्रदाय तेषाम् अभिनन्दनम् अकरोत्।
कार्यक्रमस्य सञ्चालनं कुर्वन् रोटेरियन-हिमांशुकुमारसिंहः अवदत् यत् अधुना आत्महत्यायाः पारिवारिकविघटनस्य च घटनाः समक्षम् आगच्छन्ति। एतेषां पृष्ठे मानसिकतनावः अपि एकं महत्त्वपूर्णं कारणं भवितुम् अर्हति। तनावस्य गम्भीरतया विचारं कृत्वा परिवारस्य सदस्यैः परस्परं मुक्तरूपेण वार्तालापः करणीयः। आवश्यकतायां चिकित्सकैः विशेषज्ञैश्च सह सम्पर्कं कृत्वा समुचितं परामर्शं ग्रहीतव्यम्। प्रीतिपाण्डेयः अवदत् यत् एकाकिजीवनशैल्याः कारणात् जनाः तनावपूर्णं जीवनं यापयन्ति। आईटीआई-संस्थायाः प्राचार्यः के.के. रामः अवदत् यत् व्यस्तजीवनम्, कार्यस्य अतिरिक्तभारः, अस्वस्थजीवनशैली च मानसिक-समस्यानां प्रमुखकारणेषु अन्तर्भवन्ति। अतः कार्यजीवनयोः व्यक्तिगतजीवनस्य च मध्ये सन्तुलनं स्थापयितुम् आवश्यकम् अस्ति।
मुख्यातिथिः मनोरोगविशेषज्ञः डॉ. अनूपकुमारश्रीवास्तवः विश्वमानसिक-स्वास्थ्यदिवसस्य विषयवस्तुम्—‘जीवना-नुभवान् शृणुयाम, वास्तविकाः स्वराः, वास्तविकं परिवर्तनम्’—इति विषये विस्तरेण स्वविचारान् प्रस्तुतवान्। सः अवदत् यत् मानसिकसमस्याभिः पीडितस्य व्यक्तेः वचनानि तस्य अनुभवान् च सावधानतया श्रोतुम् अत्यावश्यकम्। समाजे मानसिकरोगाणां विषये विद्यमानं कलङ्कभावं भेदभावं च दूरीकर्तव्यम्। तेन सूचितं यत् निद्रासम्बन्धिनी समस्या, आत्मविश्वासस्य न्यूनता, अत्यधिकः क्रोधः, पुनः पुनः हस्तप्रक्षालनम्, आवश्यकतायाः अधिकं स्वच्छतायाः पालनम् असामान्य-व्यवहारश्च इत्यादीनि लक्षणानि नोपेक्षणीयानि। एतादृश्यां स्थितौ विशेषज्ञस्य परामर्शः आवश्यकः।
अस्मिन् अवसरे रोटेरियन-इमरानलारी, गोपालकृष्णसिंहरामू, प्रभाकरमिश्रः, अमितत्रिपाठी, विनोद यादवः, मिथिलेश-कुशवाहा, विजयः सिंहः, डॉ. अविनाशचौरसिया, सन्दीपगुप्तः, सना, सन्दीपमल्लः, अविनाशसिंहः, सुजीतमिश्रः, अविनाशबैरनवालः, पुण्यप्रकाशतिवारी, रणजीतसिंहः, अनिलगुप्तः, अजय-जायसवालः, सत्येन्द्रशुक्लः, राकेशसिंहः, विपिनयादवः, विजयचौरसिया, तेजपुञ्ज-त्रिपाठी, डॉ. अभिनवसिंहः इत्यादयः अन्ये च जनाः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan