Enter your Email Address to subscribe to our newsletters

- २०० तः अधिकेषु आपणस्थानेषु स्वदेशीवस्तूनि उपलब्धानि भविष्यन्ति, हस्तशिल्पस्य स्थानीयोद्यमानां च दृश्यं दृश्यते
भोपालम्, १० अक्टोबरमासः (हि.स.)। मध्यप्रदेशस्य राजधानी भोपालनगरे स्वदेशीवस्तूनां प्रोत्साहनाय, स्थानीय-शिल्पकारेभ्यः उद्यमिभ्यश्च विस्तृतविपण्याः उपलब्धतायै तथा समाजे स्वावलम्बन-भावनायाः सुदृढीकरणाय अक्टोबरमासस्य २३ दिनाङ्कात् द्वादशदिवसीयस्य विशालस्य स्वदेशीमेलापकस्य आयोजनं भविष्यति। स्वदेशीजागरणमञ्चस्य स्वर्णिमभारतवर्ष-प्रतिष्ठानस्य च संयुक्ततत्त्वावधाने अयं मेलापकः मिन्टोहॉलस्य समीपे एम.वी.एम. क्रीडाङ्गणे आयोजयिष्यते। मेलापके देशस्य विभिन्नभागेभ्यः आगतानां स्वदेशीवस्तूनां, भारतीयहस्तशिल्पस्य, दैनिकोपयोगिवस्तूनां, स्थानीयोद्योगानां तथा नवोद्यमानां २०० तः अधिकानि आपणस्थानानि स्थापितानि भविष्यन्ति।
शनिवासरे पत्रकारसम्मेलने आयोजनस्य विवरणं ददत् मेलापकस्य आयोजकैः उक्तं यत् स्वदेशीवस्तूनि सामान्यजनानां यावत् प्रापयितुं, स्थानीयशिल्पकारेभ्यः, वयन-जीविभ्यः, शिल्पिभ्यः तथा सूक्ष्म-लघु-मध्यमोद्यमेभ्यः स्वोत्पादानां प्रदर्शनाय विक्रयाय च उत्तमं मञ्चं प्रदातुम् अस्य आयोजनस्य मुख्योद्देश्यम् अस्ति। अस्य माध्यमेन युवभ्यः, महिलाभ्यः नवो-द्यमिभ्यश्च उद्यमशीलतायै आत्मनिर्भरतायै च प्रोत्साहनं प्रदास्यते। भारतीयवस्तूनां गुणवत्तया, विविधतया उपयोगितया च उपभोक्तॄन् परिचितान् कर्तुमपि प्रयासः भविष्यति।
व्यापारेण सह भारतीयसंस्कृतेः उत्सवः
आयोजकैः सूचितं यत् स्वदेशीमेलापकः केवलं क्रयविक्रययोः व्यापारस्य च कृते सीमितः न भविष्यति, अपितु भारतीय-कलायाः, संस्कृतेः परम्पराणां च उत्सवरूपेणापि आयोजयिष्यते। मेलापके प्रतिदिनं सांस्कृतिककार्यक्रमाः भविष्यन्ति। विद्यालयीयच्छात्राणां कार्य-क्रमैः सह युवानः स्वदेशीविचारेण सह योजयितुं नाट्यनृत्यप्रतियोगिताः अपि आयोजयिष्यन्ते। एतासां गतिविधीनां माध्यमेन नववंशे भारतीयवस्तूनां प्रति रुचिं वर्धयितुं स्वदेशीविचारं च जनसामान्यं यावत् प्रापयितुं प्रयासः क्रियते।
स्वदेशीजागरणमञ्चस्य गौरवपूर्ण: इतिहास:
उल्लेखनीयं यत् स्वदेशीविचारस्य परम्परां प्रवर्धयितुं लोकमान्यबालगङ्गाधर-तिलकस्य दत्तोपन्तठेङ्गडीमहोदयस्य च विचारान् सङ्गठितरूपं प्रदातुं च १९९१ तमस्य वर्षस्य नवम्बरमासस्य २२ दिनाङ्के नागपुरनगरे स्वदेशीजागरण-मञ्चस्य स्थापना अभवत्। १९९९ तमे वर्षे दिल्लीतः आरब्धा स्वदेशीमेलापकानाम् आयोजनपरम्परा अद्यावधि देशस्य विभिन्नभागेषु १०० तः अधिकान् सफलान् कार्यक्रमान् प्राप्तवती अस्ति। भोपालनगरे प्रस्तावितम् इदं आयोजनम् अपि तस्याः परम्परायाः अग्रे प्रवर्धनस्य दिशि महत्त्वपूर्णः प्रयासः अस्ति।
आयोजनाय समितेः गठनम्
मेलापकस्य सुव्यवस्थितसञ्चालनाय विविधव्यवस्थानां च कृते आयोजनसमितेः गठनं कृतम् अस्ति। सतीशविश्वकर्मा मेलापकस्य संयोजकः नियुक्तः, सोनी, दीपकवर्मा तथा रमनतिवारी च सहसंयोजकानां दायित्वं प्राप्तवन्तः। सीमाभारद्वाजायै शोभराजसुखवानी-महोदयाय च प्रमुखदायित्वानि समर्पितानि सन्ति। आयोजनस्य विभिन्नव्यवस्थानां सञ्चालनाय पृथक्-पृथक् कार्यसमितयः अपि गठिताः सन्ति। पत्रकारसम्मेलने अखिलभारतीयसहमेलापकमुख्यः साकेतराठौरः अपि उपस्थितः आसीत्।
Hindusthan Samachar / Divya Ranjan