Enter your Email Address to subscribe to our newsletters


राज्यपालः सन्तोषगङ्गवारः ‘ऑपरेशन सिन्दूर’ अभियानस्य उल्लेखं कृतवान्।
पूर्वसैनिकानां वीरनारीणां च कृते प्रदत्तानां कल्याणकारीसेवानां प्रशंसा।
देवघरम्, १० अक्टोबरमासः (हि.स.)। उपराष्ट्रपतिः सीपी राधाकृष्णन् शनिवासरे देवघरस्य भ्रमणावसरे दर्दमारास्थिते पीडी हिन्दुजा चिकित्सालयपरिसरे आयोजितस्य सैन्यसेवासम्पर्कमेलापकस्य समापन-समारोहे भागं गृहीतवान्। भारतीयसेनया आयोजितस्य अस्य मेलापकस्य उद्देश्यम् पूर्वसैनिकेभ्यः, वीरनारीभ्यः तेषां परिवारेभ्यश्च विविध-सेवानां कल्याण-कारीयोजनानां च लाभं प्रदातुम् आसीत्। अस्मिन् कार्यक्रमे झारखण्डस्य राज्यपालः सन्तोषकुमार-गङ्गवारः गोड्डाजनपदस्य सांसदः डॉ. निशिकान्तदुबे च उपस्थितौ आस्ताम्।
अस्मिन्नवसरे उपराष्ट्रपतिः अवदत् यत् यदा देशस्य सैनिकाः राष्ट्रस्य रक्षायै सर्वदा तत्पराः भवन्ति, तदा राष्ट्रस्यापि दायित्वम् अस्ति यत् तत् सैनिकैः तेषां परिवारैश्च सह दृढतया तिष्ठेत्। सैनिकानां बलिदानस्य सम्मानं, तेभ्यः समुचितसहयोगस्य, परिचर्यायाः सुविधानां च प्रदानं राष्ट्रियप्रतिबद्धतायाः अङ्गं भवितव्यम्।
उपराष्ट्रपतिः अवदत् यत् सैनिकानां तेषां परिवाराणां च कल्याणं प्रति समाजस्य प्रत्येकं व्यक्तौ प्रतिबद्धता भवितव्या। एतेन सुनिश्चितं कर्तुं शक्यते यत् राष्ट्राय सर्वस्वं समर्पितवन्तः सैनिकाः तेषां बलिदानं च सर्वदा स्मर्यन्ते, ते च योग्यं सम्मानं, सहयोगं परिचर्यां च प्राप्नुयुः।
सः झारखण्डस्य सैन्यसेवायाः बलिदानस्य च गौरवशालिनीं परम्परां स्मरन् परमवीरचक्रेण सम्मानिताय लान्स-नायकाय अल्बर्टएक्काय राज्यस्य आदिवासीस्वतन्त्रतासेनानिभ्यश्च श्रद्धाञ्जलिं समर्पितवान्।
उपराष्ट्रपतिः मेलापकस्य भ्रमणमपि कृतवान् तथा तत्र उपलब्धानां एकलखिडकीसेवानां प्रशंसाम् अकरोत्। सः अवदत् यत् पूर्वसैनिकेभ्यः तेषां परिवारेभ्यश्च समये सहायता, स्वास्थ्यसेवाः, निवृत्तिवेतनसम्बद्धाः सेवाः, परिवेदनानां शीघ्रसमाधानं च प्रदातुं महत्त्वपूर्णम् अस्ति।
सः अवदत् यत् देशस्य सैनिकाः सीमासु तैनाताः भूत्वा भारतस्य सार्वभौमत्वस्य, गौरवस्य आगामिपीढीनां भविष्यस्य च रक्षां कुर्वन्ति। तान् प्रति सम्मानं केवलं भावनायाः विषयः न, अपितु प्रत्येकस्य नागरिकस्य राष्ट्रियकर्तव्यम् अस्ति।
‘ऑपरेशन सिन्दूर’ अभियाने सैनिकानां साहसस्य सङ्कल्पस्य च प्रशंसा
समारोहं सम्बोधयन् राज्यपालः सन्तोषकुमारगङ्गवारः ‘ऑपरेशन सिन्दूर’ अभियानस्य उल्लेखं कुर्वन् अवदत् यत् भारतीयसैनिकाः अस्य अभियानस्य समये साहसस्य, शौर्यस्य दृढसङ्कल्पस्य च परिचयं दत्तवन्तः। एतत् देशस्य सुरक्षां प्रति तेषाम् अटूटप्रतिबद्धतां दर्शयति। भारतं शान्तौ सहजीवने च विश्वसिति, किन्तु देशस्य सार्वभौमत्वस्य सुरक्षायाश्च विषये कापि संधिः स्वीकर्तुं न शक्यते इति सः अवदत्।
राज्यपालः अवदत् यत् प्रधानमन्त्रीण: नेतृत्वे सैनिकानां, पूर्वसैनिकानां तेषां परिवाराणां च सम्मानं, स्वास्थ्यं, सामाजिकसुरक्षा कल्याणं च प्राथमिकतया स्वीक्रियते।
राज्यपालः अवदत् यत् सैन्यसेवासम्पर्क-मेलापकसदृशाः कार्यक्रमाः सैनिकैः, पूर्वसैनिकैः, वीरनारीभिः तेषां परिजनैश्च सह प्रत्यक्षसंवादस्य अवसरं प्रददति। एतेषां माध्यमेन तेषां आवश्यकताः ज्ञातुं सर्वकारेण सञ्चालितानां कल्याणकारी-योजनानां विषये सूचनाः प्रदातुं च सहायता भवति। सः स्थानीयसांसदस्य डॉ. निशिकान्तदुबे-महोदयस्य, बाबा बैद्यनाथ मेडिकल ट्रस्ट चिकित्सालयस्य, कार्यक्रमस्य आयोजने सहयोगं कृतवतां सर्वेषां च प्रयासानां प्रशंसाम् अकरोत्। एतादृशाः कार्यक्रमाः सैनिकान् प्रति सम्मानस्य, कृतज्ञतायाः सहयोगभावनायाश्च दृढीकरणं कुर्वन्ति इति सः अवदत्।
राज्यपालः युवभ्यः सैनिकानाम् अनुशासनात्, साहसात्, संयमात् राष्ट्रं प्रति समर्पणभावाच्च प्रेरणां ग्रहीतुं आह्वानम् अकरोत्। सः अवदत् यत् देशस्य विकासे सेवायां च योगदानं दातुम् प्रत्येकं व्यक्तेः अवसरः अस्ति। एतदर्थं स्वकर्तव्यानां निर्वहणं सत्यनिष्ठया निष्ठया च करणीयम्। सैनिकानां प्रति सम्मानः केवलं शब्देषु एव सीमितः न भवेत्, अपितु अस्माकं व्यवहारेषु कार्येषु च दृश्येत इति सः अवदत्। राष्ट्रस्य रक्षां कुर्वतां सैनिकानां सेवा अपि राष्ट्रसेवायाः एव एकं रूपम् अस्ति।
उपराष्ट्रपतेः देवघरभ्रमणस्य अवसरे जनपदप्रशासनस्य आरक्षिदलस्य च दलानि निरन्तरं सतर्काणि आसन्। विमानपत्तनात् आरभ्य एम्स्-चिकित्सालयपर्यन्तं, बैद्यनाथ मेडिकल ट्रस्ट चिकित्सालयात् दर्दमारास्थित-कार्यक्रमस्थलपर्यन्तं च सुदृढाः सुरक्षाव्यवस्थाः कृताः आसन्। उपायुक्तः आरक्षी अधीक्षकश्च सुरक्षाव्यवस्थायाः निरन्तरं निरीक्षणं कुर्वन्तौ आस्ताम्।
Hindusthan Samachar / Divya Ranjan