Enter your Email Address to subscribe to our newsletters

१७३ विद्यार्थिषु १३२ छात्राः; चिकित्सा-महाविद्यालयानां संख्या ३८७ तः वर्धित्वा ८४६ अभवत्।
देवघरम्, १० अक्टोबरमासः (हि.स.)। उपराष्ट्रपतिः सीपी राधाकृष्णन् शनिवासरे देवघरे स्थितस्य अखिलभारतीयायुर्विज्ञान-संस्थानस्य द्वितीयदीक्षान्तसमारोहे मुख्यातिथिरूपेण भागं गृहीतवान्। अस्मिन् अवसरे स्नातकत्वं प्राप्तवद्भ्यः चिकित्सकेभ्यः, परिचारिकाभ्यः अन्येभ्यश्च स्वास्थ्यसेवा-व्यावसायिकेभ्यः शुभकामनाः प्रदाय सः अवदत् यत् चिकित्साशास्त्रस्य उपाधिः केवलं शैक्षणिकी उपलब्धिः न, अपितु वञ्चितानां दुर्बलवर्गाणां च सेवायाः दायित्वमपि अस्ति। सः युवा चिकित्सकान् स्वास्थ्यकर्मिणश्च दक्षतां, सत्यनिष्ठां, सहानुभूतिं नैतिकमूल्यानि च स्वव्यवसायस्य आधारं कर्तुम् आहूतवान्।
उपराष्ट्रपतिः दीक्षान्तसमारोहं सन्थाल-परगनाक्षेत्रस्य आकाङ्क्षाणाम् उत्सवम् इति वर्णयन् अवदत् यत् एम्स-देवघरः जनजातीयानां ग्रामीणसमुदायानां च कृते चिकित्साशिक्षायाः स्वास्थ्यसेवानां च वर्धमानावसराणां प्रतीकः अस्ति। सः स्नातकेभ्यः आग्रहं कृतवान् यत् ते स्वज्ञानस्य कौशलस्य च उपयोगं संस्थानस्य सीमाभ्यः बहिः गत्वा ग्रामेषु, आदिवासीसमुदायेषु, देशस्य दूरस्थक्षेत्रेषु च जनानां सेवायै कुर्युः। चिकित्साज्ञानस्य परमः उद्देश्यः मानवतायाः समाजस्य च कल्याणम् इति सः अवदत्।
सीपी राधाकृष्णन् भगवान् बिरसामुण्डा, सिदो-कान्हू, तिलकामाञ्झी च एतेषां योगदानस्य स्मरणं कुर्वन् युवा-स्वास्थ्यसेवाव्यावसायिकान् जनसेवा-भावेन अग्रे गन्तुम् आहूतवान्। चिकित्साक्षेत्रे सफलतायाः वास्तविकं महत्त्वं तदैव भवति, यदा तस्याः लाभः समाजस्य आवश्यकताग्रस्तेभ्यः वञ्चितेभ्यश्च जनेभ्यः प्राप्यते इति सः अवदत्।
क्षेत्रीयस्वास्थ्यसेवानां सुदृढीकरणे एम्स-देवघरस्य योगदानस्य सः प्रशंसाम् अकरोत्। मलेरियानिर्मूलनम्, लसीका-फाइलेरियायाः निरीक्षणम्, रक्ताल्पता-नियन्त्रणम्, श्रवणस्वास्थ्यं विद्यालय-स्वास्थ्यसम्बद्धाः संस्थानस्य सामुदायिक-प्रयत्नाश्च उल्लिख्य सः अवदत् यत् चिकित्सासंस्थानानां दायित्वं तेषां परिसरपर्यन्तं सीमितं न भवेत्। समीपस्थसमुदायानां स्वास्थ्यसम्बद्धानाम् आवश्यकतानां पूर्तये अपि तैः सक्रियभूमिका निर्वोढव्या।
उपराष्ट्रपतिः प्रधानमन्त्रीनरेन्द्रमोदिनः नेतृत्वे देशे चिकित्साशिक्षायाः स्वास्थ्या-धारभूतसंरचनायाश्च विस्तारस्य उल्लेखम् अकरोत्। सः अवदत् यत् २०१४ तमवर्षात् पूर्वं देशे चिकित्सा-महाविद्यालयानां संख्या ३८७ आसीत्, या वर्धित्वा ८४६ अभवत्। तस्य मते एम्स्-देवघरसदृशानि संस्थानानि सन्तुलितस्य समावेशिनश्च विकासं प्रति प्रतिबद्धतां दर्शयन्ति।
सः अवदत् यत् २०४७ तमवर्षपर्यन्तं विकसितभारतस्य लक्ष्यं प्राप्तुं प्रत्येकस्मिन् राज्ये, जनपदे ग्रामे च गुणवत्तापूर्णस्वास्थ्यसेवानां उच्चशिक्षायाः च सुलभता सुनिश्चितीकरणीया। स्वास्थ्य-सुविधानां विस्तारः चिकित्साशिक्षायाम् अवसराणां वृद्धिश्च देशस्य समग्रविकासाय महत्त्वपूर्णौ स्तः।
उपराष्ट्रपतिः एम्स्-देवघरस्य दीक्षान्त-समारोहे स्नातकत्वं प्राप्तवत्सु १७३ विद्यार्थिषु १३२ छात्राणां संख्यां दृष्ट्वा सन्तोषं प्रकटितवान्। सः अवदत् यत् एषा संख्या महिला-सशक्तीकरणात् परं महिला-नेतृत्वयुक्तविकासस्य दिशि देशस्य प्रगतिं दर्शयति। एतत् शिक्षायाः तां परिवर्तनकारीं भूमिकामपि रेखाङ्कयति, या महिलाभ्यः स्वप्रतिभायाः क्षमतानां च विकासाय अवसरान् प्रददाति।
सः स्नातकेभ्यः तेषां समुदायैः सह सम्बद्धाः स्थातुम् आग्रहं कृतवान्, येषां सेवायै संस्थानस्य स्थापना कृता। युवा-स्वास्थ्यसेवाव्यावसायिकाः स्वज्ञानस्य उपयोगं आवश्यकताग्रस्तेभ्यः उत्तम-चिकित्सासुविधानां प्रदाने समाजे स्वास्थ्यविषयकजागरूकतायाः वर्धने च कुर्युः इति सः अवदत्।
सीपी राधाकृष्णन् युवा-चिकित्सकान् स्वास्थ्यकर्मिणश्च कृत्रिमबुद्धे:, दूर-चिकित्सायाः अङ्कीयनिदानस्य च इत्यादीनाम् उदितप्रौद्योगिकीनाम् उत्तर-दायित्वेन उपयोगं कर्तुम् आहूतवान्। एतेषु क्षेत्रेषु जायमानप्रगतेः लाभः केवलं महानगरेषु सीमितः न भवेत्, अपितु दूरस्थग्रामेभ्यः वञ्चितसमुदायेभ्यश्च अपि प्राप्नुयात् इति सः अवदत्।
युवपीढ्यां मादकद्रव्यसेवनस्य विरुद्धं जागरूकतायाः प्रसारस्य आवश्यक-तायामपि सः बलं दत्तवान्। रोगिणां परिचर्यायां परिचारिकाणां महत्त्वपूर्णां भूमिकां प्रशंसन् सः अवदत् यत् स्वास्थ्यसेवासु प्राविधिकदक्षतया सह मानवीयसंवेदनशीलतायाः अपि आवश्यकता अस्ति।
उपराष्ट्रपतिः विश्वासं प्रकटितवान् यत् एम्स्-देवघरः झारखण्डसहितस्य पूर्वभारतस्य विस्तृतक्षेत्रस्य कृते चिकित्सकीयश्रेष्ठतायाः, वैज्ञानिकानु-सन्धानस्य, करुणापूर्णचिकित्सासेवायाश्च केन्द्ररूपेण निरन्तरं प्रगतिं करिष्यति। सः स्नातकेभ्यः स्वव्यावसायिकजीवने दक्षतां, करुणां, चरित्रं च मार्गदर्शकसिद्धान्तान् कृत्वा विकसितभारतस्य निर्माणे सार्थकं योगदानं दातुम् आह्वानं कृतवान्।
दीक्षान्तसमारोहे झारखण्डस्य राज्यपालः सन्तोषकुमारगङ्गवारः, केन्द्रीयस्वास्थ्य-परिवारकल्याणराज्यमन्त्री प्रतापराव-जाधवः, झारखण्डस्य स्वास्थ्यामात्यः डॉ. इरफानअंसारी, गोड्डाजनपदस्य सांसदः डॉ. निशिकान्तदुबे, राज्यसभासांसदः प्रदीप-कुमारवर्मा, देवघरस्य विधायकः सुरेशपासवानः, एम्स्-देवघरस्य अध्यक्षा प्रोफेसर एमवी पद्मा श्रीवास्तवः, संस्थानस्य कार्यकारीनिदेशकः मुख्य-कार्यकारीाधिकारी च प्रोफेसर नितिन एम. गङ्गाने इत्यादयः अन्ये च गणमान्याः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan