Enter your Email Address to subscribe to our newsletters



नव दिल्ली, 10 अक्टूबरमासः (हि.स.)।
नवदेहल्याः यशोभूमौ आयोजितस्य इण्डिया मोबाइल कांग्रेस (आईएमसी) २०२६ इत्यस्य ऐतिहासिकं दशमं संस्करणं शनिवासरे सम्पन्नम्। चतुर्दिनात्मकस्य अस्य आयोजनस्य अवधौ महत्त्वपूर्णाः चर्चाः, बहुपक्षीयसहकार्यम्, प्रौद्योगिकीप्रदर्शनानि च अभवन्, यैः वैश्विकस्य अङ्कीयप्रवर्तकस्य रूपे भारतस्य स्थितिः अधिकं सुदृढा अभवत्।
‘सीमानाम् अतिक्रम्य विस्तारः’ इति विषयवस्तुकेन्द्रितस्य आईएमसी २०२६ इत्यस्य समापनदिवसे उच्चस्तरीयनीतीनां मानकीकरणस्य च आधारस्तरे कार्यान्वयने विशेषावधानं दत्तम्। अस्मिन् कृषिखाद्यव्यवस्थासु कृत्रिमबुद्धिमत्तायाः (एआई) उपयोगः, युवनेतृत्वे अत्याधुनिकं रोबोटिक्सप्रौद्योगिकी, स्वायत्ताः पञ्चमपीढीजालाधारिताः कृत्रिमबुद्धिमत्तायुक्ताः एजेन्टाः, अन्तिमदूरस्थबिन्दुपर्यन्तम् अङ्कीयसेवानां वितरणस्य प्रशासनिकावश्यकताः च विशेषतया चर्चिताः।
स्वदेशीयबौद्धिकसम्पदः सार्वभौमसेमिकण्डक्टरप्रौद्योगिक्याश्च दृष्टिकोणेन प्रधानमन्त्री नरेन्द्रमोदिना आईएमसी इत्यस्य उद्घाटनात् आरभ्य सञ्चारमन्त्रिणा ज्योतिरादित्यसिन्धियया वैश्विकेषु षष्ठपीढीदूरसञ्चारप्रौद्योगिक्याः पेटेण्टेषु दशप्रतिशतं भागित्वं प्राप्तुं भारतस्य लक्ष्यस्य उल्लेखपर्यन्तम्, अस्य दशकस्य संस्करणेन भारतस्य तस्याः प्रगतिमार्गस्य दृढीकरणं कृतम्, यस्मिन् भारतं केवलं प्रौद्योगिक्याः उपभोक्ता न भूत्वा वैश्विकदूरसञ्चारमानकानां निर्माता अभवत्।
आईएमसी २०२६ इत्यस्य मुख्यकार्यपालकाधिकारी (सीईओ) रामकृष्णः पी. अस्मिन् अवसरे अवदत्, “इण्डिया मोबाइल कांग्रेस इत्यस्य दशमेन संस्करणेन एतादृशः निर्णायकः मानदण्डः स्थापितः, येन स्पष्टं भवति यत् अङ्कीयमञ्चाः कथं ठोसपरिवर्तनानि आनयन्ति। विगतेषु चतुर्षु दिवसेषु आईएमसी २०२६ इत्यनेन प्रदर्शितं यत् भारतस्य अङ्कीयविकासस्य कथा इदानीं केवलं नवीनसेवानाम् आरम्भे व्यापकविस्तारे च सीमिता नास्ति, अपितु अन्तरराष्ट्रीयमानकानां निर्धारणे, स्वकीयप्रौद्योगिकीनां विकासे, लक्ष्याधारितनवप्रवर्तनस्य प्रोत्साहने च निहिता अस्ति।
अन्तरराष्ट्रीयषष्ठपीढीसङ्गोष्ठीतः आरभ्य कृषिक्षेत्रे कृत्रिमबुद्धिमत्तायाः प्रयोगे युवानां कृते रोबोटिक्सप्रौद्योगिक्यां च अस्माकम् अन्तिमावधानपर्यन्तम्, अस्य संस्करणेन विश्वाय प्रदर्शितं यत् भारतम् एकम् अन्तर्भाविपूर्णं, सुदृढम्, आत्मनिर्भरं च प्रौद्योगिकीतन्त्रं निर्माति, यत् सीमाः अतिक्रम्य अग्रे गन्तुं शक्नोति।”
अस्य आयोजनस्य चतुर्थे दिने विशिष्टक्षेत्रसम्बद्धकार्येषु विशेषबलं दत्तम्। अस्य आरम्भः अन्तरराष्ट्रीयदूरसञ्चारसङ्घेन (आईटीयू) सह संयुक्तरूपेण आयोजितया ‘कृषिखाद्यव्यवस्थायै कृत्रिमबुद्धिमत्तायाः वैश्विकपहलः’ इति सङ्गोष्ठ्या अभवत्। आधारस्तरीयनवप्रवर्तनस्य भविष्योपयोगिप्रतिभायाश्च प्रोत्साहनाय अस्मिन् मञ्चे ‘रोबोटिक्स फॉर गुड यूथ चैलेंज इण्डिया’ इति प्रतियोगितायाः आयोजनम् अभवत्। अस्याः प्रतियोगितायाः आयोजनम् आईटीयू-सङ्घेन, भारतीयप्रौद्योगिकीसंस्थानस्य देहल्याः कोबोटिक्सविषयकस्य आई-हब-फाउण्डेशन (आईएचएफसी) इत्यनेन च दूरसञ्चारविभागस्य सहकारेण कृतम्।
एतदतिरिक्तम्, आईटीयू-बिल्ड-अ-थॉन इत्यस्मिन् कार्यक्रमे विकासकानां विकासकतन्त्रस्य च क्षमतासु विशेषावधानं दत्तम्। अत्र अभियन्तारः पञ्चमपीढीजालस्य कार्यनिष्पादनाय विशेषरूपेण निर्मितान् स्वायत्तान् कृत्रिमबुद्धिमत्तायुक्तान् एजेन्टान् संस्थापितवन्तः। तत्सह अङ्कीयसुरक्षाक्रीडासु अन्तःक्रियात्मकाः साइबरसम्बद्धाः चुनौतीः अपि प्रस्तुताः।
‘अन्तिमदूरस्थबिन्दुपर्यन्तं सेवाविस्ताराय अतिरिक्तप्रयत्नः’ इति सत्रे स्थायिवित्तपोषणस्य उपायाः, ग्रामीणक्षेत्रेषु ब्रॉडबैण्ड्-सुविधायाः विस्तारः, आवश्यकाधारभूतसंरचनायाः सुरक्षोपायाश्च चर्चिताः। अस्य उद्देश्यं प्रत्येकस्य ग्रामपञ्चायतस्य कृते उच्चगतियुक्तसम्पर्कसुविधया प्रत्यक्षतया आर्थिकसुदृढीकरणस्य अवसरः सुनिश्चितः भवेदिति आसीत्।
आईएमसी २०२६ इत्यस्य चतुर्थे दिने उद्योगजगतः प्रतिनिधीनां नीतिनिर्मातॄणां च विचाराः
दूरसञ्चारमानकीकरणब्यूरो (टीएसबी) इत्यस्य उपनिदेशकः तथा अन्तरराष्ट्रीयदूरसञ्चारसङ्घस्य (आईटीयू) अध्ययनसमूहानां नीतिविभागस्य च प्रमुखः डॉ. बिलेले जैमोउसी अवदत्, “कृषिः खाद्यं च प्रत्येकस्य व्यक्तेः, प्रत्येकस्य समुदायस्य, प्रत्येकस्य राष्ट्रस्य च जीवनैः सम्बद्धे स्तः। कृत्रिमबुद्धिमत्ता इदानीं प्रयोगशालाभ्यः बहिः आगत्य वास्तविकार्थव्यवस्थायां प्रविशति, येन एतेषां क्षेत्राणां प्रमुखसमस्यानां समाधानं कर्तुं सहायता भवति। किन्तु कृत्रिमबुद्धिमत्ताधारितसमाधानस्य वास्तविकं मूल्याङ्कनं तस्य गणनाविधेः अत्याधुनिकतया न भवति, अपितु तेन लघुकृषकस्य कस्यचित् वास्तविकसमस्यायाः समाधानं भवति वा न वेति आधारेण भवति।
एतदेव कारणं यत् कृत्रिमबुद्धिमत्ता केवलं कृषकाणां कृते न, अपितु तैः सह मिलित्वा विकसितव्या। अत्र अन्तरराष्ट्रीयमानकानि महत्त्वपूर्णां भूमिकां निर्वहन्ति, यतः तानि नवप्रवर्तनस्य गतिं न मन्दयन्ति, अपितु तस्य व्यापकस्तरे कार्यान्वयनाय साहाय्यं कुर्वन्ति तथा व्यवस्थायाः विखण्डनं निवारयन्ति, येन समाधानानि केवलं पृथक् पृथक् परीक्षणपरियोजनासु सीमितानि न भवन्ति। सर्वकाराणाम्, अन्तरराष्ट्रीयसङ्घटनानाम्, अनुसन्धानकर्तॄणाम्, उद्योगजगतः, निवेशकानां च परस्परसहकारेण वयं स्वदृष्टिकोणं वास्तविकतायां परिणमयितुं शक्नुमः तथा सर्वेषां कृते स्थायिनः, सुदृढस्य, सुरक्षितस्य च खाद्यभविष्यस्य निर्माणं कर्तुं शक्नुमः।”
दूरसञ्चारविभागस्य वरिष्ठोपमहानिदेशकः तथा दूरसञ्चार-अभियांत्रिकीकेन्द्रस्य (टीईसी) प्रमुखः श्री सैयद तौसीफ अब्बास अवदत्, “सम्पर्कसुविधा अस्माकं क्षेत्राणि संयोजयति, परस्परकार्यसामर्थ्यं अस्माकं प्रणाल्यः संयोजयति, कृत्रिमबुद्धिमत्ता च नवप्रवर्तनं प्रभावेण सह संयोजयति। किन्तु अस्याः वैश्विकपहलायाः सफलता केवलं प्रौद्योगिकीयप्रगतिना न, अपितु कृषकाणां जीविकायां, कृष्युत्पादकतायां, आपूर्तिशृङ्खलायाः कार्यकुशलतायां, खाद्यसुरक्षायां च जायमानैः ठोससुधारैः मापनीया भविष्यति।
एतदर्थं कृत्रिमबुद्धिमत्ताधारितानि समाधानानि पारदर्शकानि, समावेशिनः, सुलभानि च भवेयुः। तथैव दत्तांशस्य गुणवत्ता, गोपनीयता, लघुसीमान्तकृषकाणां आवश्यकताः च समुचिततया विचारणीयाः। एतेषां समाधानानां समर्थनम् अन्तरराष्ट्रीयमानकैः अपि भवितव्यम्, येन विभिन्नेषु देशेषु विकसितानि समाधानानि परस्परं प्रभावीरूपेण कार्यं कर्तुं शक्नुयुः।”
दूरसञ्चारविभागस्य दूरसञ्चार-अभियांत्रिकीकेन्द्रस्य (टीईसी) उपमहानिदेशकः देवेन्द्रसिंहः अवदत्, “कृत्रिमबुद्धिमत्ताप्रणालीनां मूल्याङ्कनाय पारम्परिकगणनासम्बद्धमानकान् अतिक्रम्य निष्पक्षतायाः, पारदर्शितायाः, सुदृढतायाश्च व्यवस्थितरूपरेखाणां दिशि अग्रे गन्तुम् आवश्यकम्। कृत्रिमबुद्धिमत्तायां पक्षपातः अनेकस्तरेषु उत्पद्यते, यथा अशोधितप्रशिक्षणदत्तांशात्, असामान्यदत्तांशबिन्दुभ्यः, प्रतिरूपचयनात्, तस्य कार्यान्वयनस्य परिस्थितिपर्यन्तम्। अस्याः समस्यायाः समाधानाय वयं विविधस्तरेषु जोखिममूल्याङ्कनं कुर्मः। अस्मिन् विषयविशिष्टमापदण्डानां मूल्याङ्कनं, सुरक्षितविशेषताभिः सह परीक्षणं, प्रतिकूलपरिस्थितिषु अनुभवाधारितपरीक्षणं च अन्तर्भवति।
वास्तवतः सुदृढा कृत्रिमबुद्धिमत्ताप्रणाली कठिनासु असामान्यासु च परिस्थितिष्वपि विश्वसनीयतया कार्यं कुर्यात्, सुरक्षासम्बद्धान् नियमान् पालयेत् तथा एकीकरणस्य प्रत्येकस्मिन् स्तरे मापनीयान् पारदर्शकान् च परिणामान् प्रदद्यात्।”
भारतीयमानकब्यूरो (बीआईएस) इत्यस्य खाद्यकृषिविभागस्य उपनिदेशकः देबाशीषमहालिकः अवदत्, “कृत्रिमबुद्धिमत्ताधारितकृषिः तदैव सार्थकं प्रभावं जनयितुं शक्नोति, यदा प्रौद्योगिक्याः समर्थनं दत्तांशस्य गुणवत्ता, गोपनीयता, सुरक्षा, परस्परकार्यसामर्थ्यं च सुनिश्चितैः सुदृढमानकैः भवति। भारतीयमानकब्यूरोमध्ये अस्माकं ध्यानं डिजिटलकृष्यै तादृश्याः व्यवस्थात्मकायाः रूपरेखायाः निर्माणे केन्द्रितम् अस्ति, या भारतस्य विविधकृषितन्त्रस्य वास्तविकतां प्रदर्शयेत् तथा लघूनां सीमान्तकृषकाणां च आवश्यकताः समावेशयेत्। सर्वान् सम्बद्धपक्षान् एकत्र आनय्य सामान्यमानकानां निर्माणेन वयं विश्वसनीयानि, व्यापकस्तरे कार्यान्वयितुं शक्यानि, स्थायीनि च कृषिसमाधानानि निर्मातुं शक्नुमः, यानि नवप्रवर्तनं आधारस्तरे ठोसहितलाभेषु परिणमयितुं समर्थानि भवेयुः।”
बोन सिस्टम्स इत्यस्य मुख्यप्रौद्योगिकीाधिकारी (सीटीओ) जैन रेडलिकः अवदत्, “कृषिक्षेत्रे कृत्रिमबुद्धिमत्ता स्वस्य प्रतिज्ञां तदैव पूर्णां कर्तुं शक्नोति, यदा विभिन्नप्रणालीषु दत्तांशस्य आदानप्रदानं सम्भवेत् तथा कृषकः स्वदत्तांशस्य नियन्त्रणं स्वाधीनतया धारयितुं शक्नुयात्। अद्य विखण्डितानि अङ्कीयतन्त्राणि पृथक् पृथक् खण्डान् निर्मान्ति, येन परस्परकार्यसामर्थ्यं, प्रवेशसुविधा, विश्वासश्च सीमिताः भवन्ति।
कृषिक्षेत्रे कृत्रिमबुद्धिमत्तायाः उपयोगाय निर्मितं केन्द्रितसमूहस्य सन्दर्भवास्तुकलारूपं साझा अर्थनिर्धारणप्रणालीभिः, मुक्तान्तरापृष्ठैः, रूपाङ्कने स्वायत्ततायाश्च माध्यमेन अस्याः समस्यायाः समाधानं करोति। दत्तांशप्रतिरूपाणाम्, परिचयस्य, प्रवेशस्य च माध्यमेन विद्यमानमानकानां उपयोगं कृत्वा एतत् विभिन्नमञ्चेषु अनुप्रयोगानां सेवानां च कार्यान्वयनाय साहाय्यं करोति। एतेन नवीनान् पृथक् खण्डान् अनिर्माय नवीनोपयोगविधयः विकसितुं शक्यन्ते। फलतः अधिकं परस्परसम्बद्धं, विश्वसनीयं, सुगमतया परस्परं कार्यं कर्तुं समर्थं च कृषितन्त्रं निर्मातुं सहायता भवति।
---------------
Hindusthan Samachar / Dheeraj Maithani