Enter your Email Address to subscribe to our newsletters

भोपालम्, १० अक्टोबरमासः (हि.स.)। केन्द्रीययुवकार्यक्रम-क्रीडामन्त्रालयस्य अन्तर्गतं ‘मेरा युवा भारत’ इत्यनेन मध्यप्रदेशेन च ‘वन्दे मातरम्’ इत्यस्य १५० वर्षाणां पूर्त्यवसरे २०२६–२७ वर्षस्य राष्ट्रियस्तरीयस्य ‘वन्दे मातरम्’ युवशिविरस्य आयोजनं अक्टोबरमासस्य १२ तः १८ दिनाङ्कपर्यन्तं भोपालस्थे भारतीयवनप्रबन्धनसंस्थाने भविष्यति। सप्तदिवसीये अस्मिन् शिविरे देशस्य षड्भ्यः राज्येभ्यः चयनिताः १५० युवप्रतिभागिनः भागं ग्रहीष्यन्ति।
‘मेरा युवा भारत’ इत्यस्य मध्यप्रदेशस्य राज्यनिदेशकः मङ्गलजाखडः शनिवासरे पत्रकारसम्मेलने अवदत् यत् अस्य राष्ट्रियशिविरस्य उद्देश्यम् युवसु राष्ट्रियैकतायाः, देशभक्तेः, संवैधानिक-मूल्यानां नागरिककर्तव्यानां च विषये जागरूकतायाः वर्धनम्, विभिन्न-राज्येभ्यः आगतानां यूनां मध्ये सांस्कृतिक-विनिमयस्य प्रोत्साहनम्, नेतृत्वक्षमतायाः सामाजिकोत्तरदायित्वस्य च भावनायाः विकासश्च अस्ति।
पत्रकारसम्मेलने सूचितं यत् विकसितभारतस्य २०४७ तमवर्षस्य निर्माणे युवानां सक्रियसहभागितां प्रोत्साहयितुम् एषा महत्त्वपूर्णा पहलः अस्ति। अस्मिन् अवसरे शिविरस्य उद्देश्यानां, गतिविधीनां राष्ट्रियस्तरे युवसहभागितायाः महत्त्वस्य च विषये सूचनाः प्रदत्ताः। पत्रकारसम्मेलने ‘मेरा युवा भारत’ इत्यस्य मध्यप्रदेशस्य उपनिदेशकौ रोहितयादवः, मोनिकाचौधरी च, कार्यक्रमस्य माध्यमप्रभारी सागर-वाधवानी, सहायकनिदेशकः अभिषेक-भारद्वाजः, जनपदयुवाधिकारी उमङ्गजैनः, जनपदयुवाधिकारिणी श्रद्धामित्तलः, पल्लवीदुबे च उपस्थिताः आसन्।
शिविरस्य प्रथमदिने, अक्टोबरमासस्य १२ दिनाङ्के, प्रतिभागिनां परिचयः, अभिमुखीकरणम्, अपेक्षाणां विनिमयः उद्घाटनसमारोहश्च भविष्यन्ति। एतेन युवानः शिविरस्य उद्देश्यानां, गतिविधीनां सहभागितायाः च योजनायाः विषये परिचिताः भविष्यन्ति। अक्टोबरमासस्य १३ दिनाङ्के आपदारिस्कन्यूनीकरणस्य अन्ताराष्ट्रियदिवसस्य सन्दर्भे विषया-धारितसत्रैः सह युवसहभागितासम्बद्धाः गतिविधयः आयोजयिष्यन्ते। १४ दिनाङ्के स्वच्छताकार्यक्रमः, पदयात्रा, विषया-धारितसत्राणि, सांस्कृतिककार्यक्रमस्य सज्जता सांस्कृतिकसन्ध्या च आयोजयिष्यन्ते।
१५ दिनाङ्के प्रतिभागिभ्यः क्षेत्रभ्रमणस्य अनुभवद्वारा शिक्षणस्य च गतिविधयः निर्धारिताः सन्ति। एताभिः गतिविधिभिः युवानः स्थानीयानां सामाजिकानां, सांस्कृतिकानां विकाससम्बद्धानां च पक्षाणाम् अवगमनस्य अवसरं प्राप्स्यन्ति। १६ दिनाङ्के विषयाधारितसत्रैः, समूह-गतिविधिभिः, प्रस्तुतिभिः, क्रीडाभिः मनोरञ्जकगतिविधिभिश्च सहभागितायाः दलभावनायाश्च प्रोत्साहनं क्रियते। १७ दिनाङ्के ध्यानम्, व्यायामः, विषयाधारित-सत्राणि, युवसंवादः, अनुभवानां विनिमयः, क्रीडाः मनोरञ्जकगतिविधयश्च आयो-जयिष्यन्ते। शिविरस्य अन्तिमदिने, १८ दिनाङ्के, समापनसमारोहः, सामूहिक-चित्रग्रहणम्, प्रतिभागिभ्यः प्रतिक्रियाणां सङ्ग्रहः तेषां प्रस्थानस्य व्यवस्था च भविष्यति।
शिविरकाले विभिन्नराज्येभ्यः आगतानां यूनाम् एकस्याः भाषायाः, संस्कृतेः, परम्पराणां सामाजिकानुभवानां च विषये परस्परं ज्ञातुं बोधितुं च अवसरः प्राप्स्यते। विषयाधारितसत्रैः, सांस्कृतिककार्यक्रमैः, समूहगतिविधिभिः संवादैश्च युवसु संवैधानिकचेतनायाः, सामाजिक-सहभागितायाः, सहयोगस्य, नेतृत्व-क्षमतायाः राष्ट्रनिर्माणप्रति प्रतिबद्धतायाश्च विकासे बलं दास्यते। ‘मेरा युवा भारत’ इत्यस्य एतत् प्रयासं युवानः राष्ट्रियमूल्यैः सह सम्बद्धान् कर्तुं, विविधतायाम् एकतायाः भावनां दृढीकर्तुं, विकसित-भारतस्य निर्माणे सक्रियभूमिकां निर्वोढुं च प्रेरयितुं महत्त्वपूर्णं पदम् अस्ति। नन
Hindusthan Samachar / Divya Ranjan